सामग्री पर जाएँ

पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] मिथ्यात्वश्रुत्युपपत्तिः 226 तस्य च प्राप्यतावच्छेदकरूपं द्वितीयाभावत्वम् ; तच्च न निषे- ध्यतावच्छेदकम्, किंतु द्वितीयत्वमेव निषेध्यमात्रानुगतम् । तत्र तदनभ्युपगमे तु न तस्य निषेध्यत्वम्, न वा तेनात्मनः सीयत्वापत्तिरिति न कोऽपि दोषः । यत्र तु प्राप्यतावच्छे- दकमेव निषेध्यतावच्छेदकम्, तत्र प्राप्तिनिषेधशास्त्रयोरतुल्य- विषयत्वेऽपि विशेषशास्त्र विषयपरित्यागेन सामान्यशास्त्रप्रवृत्तिः, तुल्यविषयत्वे त्वगत्या विकल्प इति न निषेधस्यासङ्कोचन प्रवृत्तिः; यथा 'न हिंस्यात्सर्वा भूतानि ' इति निषेधशास्त्रस्य 'अग्नी- षोमीयं पशुमालभेत' इत्यादिप्राप्तिशास्त्रविषयेतरविषयत्वम्' 'अतिरात्रे षोडशिनं गृह्णाति' 'नातिरात्रे षोडशिनं गृहाती' इत्यादिप्राप्तिनिषेधशास्त्रयोस्तु विकल्पेनैकविषयत्वम् ; एकस्यव निषेध्यमात्रेति । द्वितीयाभावादिसर्वनिषेध्येत्यर्थः । ननु - द्वितीयाभावस्य ब्रह्मरूपतापक्षे द्वितीयत्वं न तदनुगतमिति कथं तेन तन्निषेघस्तत्राह -- तत्र तदनभ्युपगम इति । द्वितीयाभावे द्वितीयत्वा- नङ्गीकार इत्यर्थः । ननु -- यथा न हिंस्यादित्यस्य विहितेतरहिंसानिषे- घकत्वम्, यथा वा ग्रहणाग्रहणवाक्ययोः स्वार्थे स्वतन्त्रतात्पर्यग्रहणम्, तथाद्वैतवाक्यं म्वविहितादद्वितीयत्वादन्यस्यैव द्वितीयस्य निषेधकम्, द्वितीय भावविधाने द्वितीयनिषेधे च स्वतन्त्रतात्पर्यकं किं न स्यात्तत्राह यत्र त्विति । अतुल्यविषयत्वे सामान्यविशेषभावाद्यापन्नविषत्वे । तुल्यविषयत्वे सामान्यविशेषभावाद्यनापन्नविषयत्वे ॥ अगत्या विकल्प इति । अतिरात्रे ग्रहणाग्रहणवाक्ययोर्दशमाष्टमे चिन्तितम् । विधिप्रतिषेधयार्विरोधान्नातिरात्रेत्यादि पर्युदास इति प्राप्ते, अतिरात्रभिन्ने षोडशिनं गृह्णातीत्यस्य षोडाशभिन्नमतिरात्रे गृह्णातीत्यस्य वा 1 स्वतन्त्रतात्पर्य --ग. ADVAITA. VoL. II 1 15 1