सव्याख्यायामद्वैत सिद्धौ [ प्रथमः भोक़्त्रापत्तेरविभागश्चेत्स्याल्लोकवदित्यापाततः पगमेन, 'तदनन्यत्वमारम्भणशब्दादिभ्य' इति तु विवर्तवादे परिणामवादाभ्यु- 204 अभेदिनो निर्विकृतेर्विवर्तो मृषास्वरूपान्तरदर्शकत्वम् || , · - इत्यादि । यदोपासनायां नियुज्यते पुरुषस्तदा न मिथ्यात्वनिश्चयस्तस्य | विधिषु श्राद्धस्यैवाधिकारित्वादिति भावः । भोक्त्रात्तेरिति । भोग्य- जातस्य भोक्तभावापत्तिः ; भोक्रभिन्नब्रह्मा भिन्नत्वात् एवं भोक्तुरपि भोग्यभावापत्तिर्भोग्याभिन्नब्रह्माभिन्नत्वात् अतो भोक्तृभोग्यविभागो न स्यादिति – चेन्न; यतो लोके समुद्राभिन्नत्वेऽपि तरङ्गफेनादीनां यथा मिथो नाभेदः, तथा कारणीभूत ब्रह्माभेदेऽपि भोक्तभोग्ययार्न स इति सूत्रार्थः । अभ्युपगमेनेति । उक्तं हि तदनन्यत्वमित्यादिसूत्रे माध्ये- अभ्युपगम्य चेमं व्यावहारिकं भोक्तभोग्यलक्षणं विभागं स्याल्लोकव दिति परिहार उक्तो न त्वयं विभागः परमार्थतोऽस्तीति । भामल्या- मप्युक्तम् – इमां शंकामापाततो लोकसिद्धदृष्टान्तेन निराकरोति सूत्र- कार: ' " स्याल्लोकवदिति" । परिहाररहस्यमाह - तदनन्यत्वमित्या- दीति | विस्तरेण चायमर्थः- - भोकादिसूत्रे परिणामवाद- - माश्रित्य तद्वादिभिरुक्तदोषम् । समादधानो मुनिराह तस्मा- त्सिद्धान्तसिद्धिं पुनरुत्तरत्र || प्रत्यासन्ना परिणतिरियं विप्रकृष्टस्तु पूर्वः संघातादिः सकल उदितो वेदसिद्धान्तापद्धः । एतावत्वादियमभिमता सूत्रकारस्य भाति भ्रान्तिस्पष्टस्फुटनिजमनःकौशलानां नराणाम् ॥
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७३१
दिखावट