सव्याख्यायामद्वैतसिद्धौ 202 [प्रथमः प्रपञ्चस्य कल्पितस्यापि व्यावहारिकसत्वाभ्युपगमेन तद्दशायां विरोधशङ्कातत्परिहारयोरुचितत्वात्, इन्द्रजालादावध्यस्तेऽध्यैन्द्र- जालिकादेरीक्षापूर्वकं स्रष्टृत्वादेर्दर्शनाच्च । यथा च कल्पितस्यापि जन्माद्युपपत्तिस्तथाऽनिर्वचनीयवादे वक्ष्यते । स्वप्मेऽपि सृष्टयादेः श्रुत्या प्रतिपादनाच्च । अध्यस्तस्यापि सर्पस्य भयकम्पादिजनक- त्ववत् वाय्वादीनां तेजआदिजनकत्वमप्युपपद्मम् । तदभि- ध्यानादेव तु तल्लिङ्गात्स ' इति सूत्रे च तत्तद्भावापन्नस्य ब्रह्मण एव कारणत्वाभिधानात् । अबादौ पृथिव्यादिलयोक्तिरपि तत्त- द्भावापनचैतन्ये व्याख्येयेति नाधिष्ठानातिरिक्ते लयोक्तिः । पूर्वपक्षो न युक्तः ; लक्षणस्य कल्पितत्वेन तदसम्भवस्याविरुद्धत्वात् ') एवमीक्षतिसूत्रे परिणामित्वादिना प्रधानमेव कारणत्वादिमन्न ब्रह्मेति लोकवादित्यादिसूत्रे प्रयोजनमननुसन्धाय न स्रष्टृतेति कारणत्वादिस्रष्ट त्वविरोधपूर्वपक्षः वैषम्येत्यादिसूत्रेष्वपि तत्तद्विरोधेन पूर्वपक्षों न सम्भवति ; कल्पिते विरोधासम्भवादिति भावः । व्यावहारिक - सत्वेति । व्यवहारकालाबाध्यत्वेत्यर्थः । ननु – तथापि कल्पिते ईक्षा पूर्वकसृष्ट्यादि न युक्तम्; स्वप्नसृष्टयर्थमीक्षणादर्शनात्, सदस्यस्य च प्रपञ्चस्य जन्मादि वाय्वादेस्तेजआदिहेतुत्वं च न न युक्तम् ; शशविषाणादौ तददर्शनात्, कल्पितस्य कल्पितान्तरलयाधारत्वं च न युक्तम् ; अधिष्ठान एव कल्पितस्य लयदर्शनादित्यत आह - इन्द्रेत्यादि । परमसमाधानमाह - तदभिध्यानादिति । स ईश एव तत्तत्कार्यमभिध्यायन्नाकाशादिभावापन्नः सन् सृजति, अचेतनस्य कारणत्वासंभवात्केवलाकाशादेः कारणत्वाभावात्, य आकाशे तिष्ठ- नाकाशमन्तरो यमयति, सोऽकामयत बहु स्यामि' ति प्रस्तुत्य 'सच्च - -- 1 अयं कुण्डलितः पाठः क्वचिन दृश्यते. (
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७२९
दिखावट