सव्याख्यायामद्वैतसिद्धा [ प्रथमः 200 66. " - 'जन्माद्यस्य यत" इति सूत्रे, “यतो वा इमानी" त्यादिश्रुतौ च जन्माद्युक्तिः, ‘ईक्षतेर्नाशब्दमिति सूत्रे तदैवते ” त्यादिश्रुतौ सामान्यतः प्रसक्तेः । यत्तु - सामान्यधर्म पुरस्कारेणे त्याद्ययुक्तम्; अपू- वयत्रीहिनिष्ठे बैतुष्ये येन रूपेणावघातस्य प्राप्तिस्तेन रूपेण दलनादेपि प्राप्तेरुभयोरपि वैतुष्यत्वावच्छिन्ने हेतुत्वात्, न हि प्राप्तिर्निष्पत्तिरपि तु स्वरूपयोग्यता ? सा च दलनादेरप्यस्ति, एतावानेव विशेषो यदव - घातसाध्यवैतुप्येऽपूर्वीयत्वे न दलनादिसाध्ये इति, श्रवणादेस्तु ब्रह्मात्माऽभेदसाक्षात्कारत्वावच्छिन्न एव हेतुता, तत्र च नोपायान्तर- प्राप्ति, तथाच श्रवणादितन्नियमादृष्टयोरुक्तसाक्षात्कारहेतुत्वे नियम- विध्यनुपपत्तेर्मोक्षं प्रत्येव नियमादृष्टहेतुतेति – तन्न; दलनादेर्शपूर्वीय- व्रीहिवैतुप्ये कारणत्वं न विशेषतः ; न हि दलनसाध्यक्रियाव्यक्ते- स्तद्व्यक्तित्वेनोक्तवैतुष्ये हेतुत्वमपि तु तद्व्यक्तिविशिष्टे वैतुष्ये, नवा दलनादेविशेषान्तररूपेण तादृशवैतुष्ये हेतुत्वमस्ति; मानाभावात्, अतएव वैतुष्यत्वावच्छिन्ने हेतुत्वादिति मौढ्यमेव ; तत्सत्वे वा तदप्यव- घातजन्यक्रियाविशेषहेतुत्वापेक्षया सामान्यत एव, अवघातक्रियायास्तु तत्तद्व्यक्तित्वेन तत्तद्व्यक्ति विशिष्टविभागरूपे वैतुष्ये हेतुत्वाद्विशेषत एव तत्स्व रूपयोग्यताप्राप्तिरिति तु मौढ्यमात्रम् ; नहि विधिः स्वरूप- योग्यतां निवर्तयत्यपि तु दलन | धनुष्ठानभ्रान्तिम् । तस्मात्तद्धान्तिरेव प्राप्तिः । तथाच बैतुष्य इव साक्षात्कारेऽप्युपायान्तरस्य सामान्यतः प्राप्तत्वातन्निवृत्तेर्विधिफलत्वे नानुपपत्तिरिति गम्भीरार्थो न मन्दघीगम्य इति ध्येयम् ॥ जन्माद्यस्य सूत्रे जन्माद्यस्य यत इति सूत्रे | जन्मायुक्तिः जगज्जन्मादिकारणत्वरूपब्रह्मलक्षणोक्तिः । ईक्षतेरिति । यतो वा इमानि क्रियायास्तु तत्तद्वथाक्त-क..
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७२७
दिखावट