सव्याख्यायामद्वैतसिद्धौ [प्रथमः हिरण्यचारणादितद्धर्मः पुरुषार्थम् ; यतोऽप्रकरणे आम्नातत्वेन प्रकरणा- धीताद्विशिष्यते । नहि ऋत्वनुवादेन धारणं विहितम् ; येन आहवनीये जुहोतीति होमानुवादेन विहिताहवनीयवत्क्रत्वङ्गं भवेत्, नाप्यव्यभि- चरितऋतुसम्बन्धाश्रयणं प्रकृते सम्भवति; हिरण्यधारणस्य लोकेऽपि सत्वेन क्रत्वव्यभिचाराभावात् ; तस्माद्भातृव्यदुर्वर्णतादिरूपपुरुषापेक्षित- फलाय हिरण्यधारणं विधीयते, विनियोगभङ्गोऽप्यगत्या सक्तून् जुहो- तीतिवदिति । तथाच हिरण्यधारणादिफलस्य भ्रातृव्यदुर्वर्ण 'तादेर्लोक- सिद्धत्वादुक्त विधेः साधनान्तरव्यवच्छेद फलकनियमतात्पर्यकत्वेन निय- मादृष्टस्याप्युक्तरीत्या स्वीकारात्, तम्य च यथादृष्टान्तरस्य साध्य- स्यासम्भवाद्भातृव्यदुर्वर्णतादिरूपं हिरण्यधारणफलं प्रति साधनत्वम्, तथा श्रवणादिनियमादृष्टस्यापि तत्फलसाक्षात्कारं प्रतीति भावः ॥ 196 J ननु आतृव्यदुर्वर्णतादिकं न नियमादृष्टफलम् ; तस्य हिरण्य- धारणादिकं प्रति दृष्टफलत्वात्, किंतु दुरितोत्पत्तिप्रबन्धः, 2 असति हि नियमादृष्टे दुर्वर्णतादिफलोत्पादनं दुरितोत्पादकमिति कल्प्यते- उक्तं हि भाष्यादौ चतुर्थे -- द्रव्यार्जनोद्देशेन प्रतिग्नहादिनियमविधि- स्थले प्रतिग्रहाद्यन्योपायेन द्रव्यार्जनं प्रत्यवायजनकमिति तुल्यं तत्पुरुषार्थनियममात्रे । तथाच कथं तद्दृष्टान्तेन साक्षात्कारस्य नियमा- दृष्टफलत्वोक्तिरिति – चेन्न; दुरितानुत्पादकत्व विशिष्टतया द्रव्यार्जन- दुर्वर्णतोत्पादनादेर्नियमादृष्टसाध्यत्वात् । अनुत्पादकत्वं चोत्पत्यनुकूल- शक्तिनाशवत्वम् । प्रतिबन्धकेन हि कार्यानुकूलशक्तिर्नाश्यत इति मीमांसकाः । यदि तु प्रतिबन्धककालने कारणेऽव्याप्यवृत्तित्वाच्छक्ति- र्नास्तीति मतम् ; तथापि शक्तचत्यन्ताभावे क्षेमसाधारणसाध्यत्वसम्भ- वाताद्विशिष्टतया तस्य तदन्याहतम् । अत एवोक्तं नियमादृष्टमप्य- -- भ्रतृभ्यस्य दुर्वर्ण-क. ग. 2 प्रतिबन्धः -ग. .
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७२५
दिखावट