पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] 177 - 'निरुपाधि कभ्रमकार्यदर्शनमेव गुणावयवसामान्याभावेजप केतकी- गन्धसदृशः सर्पगन्ध इतिवत्सादृश्यान्तरं वा शङ्खपीतिमादा- विव कारणान्तरं वा कल्पयतीति । ननु दोषं विना भ्रम- स्वीकारे तदप्रामाण्यस्य स्वतस्त्वापत्तिः, दोषजन्यत्वस्वीकारे तु दोषस्याप्यध्यसनीयत्वेनानवस्थापत्तिरिति – चेन्न; अनाद्य- वेद्याभ्यासस्य दोषानपेक्षत्वात् । साद्यध्यासस्य चाविद्यादि- दोषजन्यत्वान्नाप्रामाण्यस्य स्वतस्त्वम् ; नाप्यनवस्था । अन्यथा तार्किकाणांमप्यनादिप्रमा गुणं विनापीति प्रामाण्यपरतस्त्वं भज्येत । जन्यप्रमामात्रस्य गुणजन्यत्वं तु जन्याध्यासमात्रस्य दोषजन्यत्वेन समम् । ननु - लाघवेन प्रथमोपस्थितत्वेन च प्रवृत्तिमात्रं प्रति संसर्गधिय इव धूममात्रं प्रति वन्हेरिव चाध्यासमात्रं प्रति दोषादीनां जनकत्वादविद्याध्यासोऽपि कथं क्लृप्तकारणेन विना भवतु ? अन्यथा संसर्गधीरपि प्रवृत्तिविशेषे वन्हिरपि धूमविशेषे हेतुरिति स्यात्; तथाचाख्यातिवादवानु- मानमात्रोच्छेदश्चापद्येयाताम् । किंचाविद्यारूपविषयस्यानादि- त्वेऽपि तत्प्रतीतेर्दोषाजन्यत्वे प्रामाण्यापातः; अप्रामाण्यप्रयो जकस्य दोषजन्यत्वस्याभावात्, अथ भेदवदविद्याख्यदोषस्य स्वपरनिर्वाहकत्वम् ; एवमपि भेदो भिन्न इतिवत् "अज्ञान- मज्ञात " मिति व्यवहारो भवतु ; प्रतीतिमात्रशरीरस्य स्ववि- षयधीहेतुत्वं कुतः ? स्वस्य स्वस्मात्पूर्ववृत्तित्वासंभवादिति - चेन; अध्यासत्वस्य लघुत्वेजप प्रथमोपस्थितत्वेऽपि न दोष- प्रतिकूलतर्कनिराकरणम् मिदम् । गुणावयवसामान्येति । गुणविशेष रूपस्यावयव विशेषरूपस्य च सामान्येत्यर्थः । कारणान्तरम् । सादृश्यनिरपेक्षदोषादिरूपम् । यत्तु प्रातीतिकदृष्टान्तेन व्यावहारिकस्यात्पत्त्यादिमत्वेऽपि मिथ्या- ADVAITA. VOL. II 12