पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

154 सव्याख्यायामद्वैतसिद्धौ [ प्रथमः न; मित्यपि न अवच्छिन्न चैतन्यज्ञानेनैवान वच्छिन्नावरणनाशा- पत्तेः; एतेन व्यक्तितः पूर्व जातिरिव विषयात्पूर्वमज्ञानमस्तीति निरस्तीमति - चेन्न; अनाद्यज्ञानविषयेऽनादिचैतन्ये तत्तदाग- न्तुकपदार्थावच्छेदाभ्युपगमात्, - 6 आश्रयत्वविषयत्वभागिनी हेतुतासम्भवाच्च । तस्माद्वत्त्य नवच्छेदकत्वसमानाधिकरणो योऽज्ञान- सम्बन्धस्तस्य भानाश्रयत्वव्यवहारे प्रतिबन्धकत्वात् घटादौ वृत्त्यव- च्छेदकत्वकाले तथा व्यवहारः । उक्तसम्बन्धाभावाश्रयतादात्म्यापन्न- चिदेव वा भानम्, तनोक्त कालेऽज्ञानसम्बन्धसत्वेऽपि तथा व्यवहारः । वृत्त्यविषयत्वसमानाधिकरणस्यासत्वापादकाज्ञानसम्बन्धस्यास्तित्वाश्रय व्यवहारा' नुपपत्तौ प्रयोजकत्वं बोध्यम् । अज्ञानस्य सम्बन्धस्तु सर्वत्र विषयतावच्छेदकत्वं, तच्च घटादावेव न सुखादाविति वृत्त्यभावेऽपि सुखादौ मानादिव्यवहारः | नाशापत्तेरिति । यदिदानीमवच्छिन्नं तदेव प्रागनवच्छिन्नत्वाच्छुद्धविषयकमावरणमिति तन्नाशापत्तिरिति भावः । अवच्छेदाभ्युपगमादिति यद्यपि चिन्मात्र मेवाज्ञानविषय- स्तथापि तत्वावच्छेदकत्वं कादाचित्कप्रकाशेषु स्वीक्रियते, यथा घटाद्य- त्यन्ताभावस्य देशविशेषसम्बन्धेऽनादौ परमते कालविशेषस्यावच्छेदकत्वं तद्वदेव च तत्र न नियामकापेक्षा | अस्तु वा स्वावच्छिन्नविषयताकत्व- सम्बन्धेन कादाचित्कप्रकाशकार्य प्रत्यविद्यायाः कारणत्वम्। अनादीश्वरादि- निष्ठा च तादृशावच्छेदकता न हेतुनियम्या । अथवा अवच्छेदाभ्युप गमादित्यस्याज्ञानविषयता घटाद्यवच्छिन्नेत्यत्र न तात्पर्यम्; परं त्वज्ञान- विषये शुद्धचिति तत्पदार्थसम्बन्ध इत्यत्र । नचैवम् – सुखादा सर्वदा भातीति न स्यात्. वृत्त्यनवच्छेद कवृत्तेरज्ञानतादात्म्यादेरेव प्रतिबन्धक- त्वादि स्वीकार्यमिति तस्य सदा सत्वादिति वाच्यम्; सुखादावे कस्या 1 प्रतिन्धत्वात्-ग. 2 श्रयत्वव्यबहारा -ख. ग. 8 नुत्पत्तौ-रा.