पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

150 सव्याख्यायामद्वैतसि दौ [प्रथमः 'बहु निगद्य किमत्र वदाम्यहं भृणुत सङ्ग्रहमद्वयशासने । सकलवाङ्मनसातिगता चितिः सकलवाङ्मनसव्यवहारभाक्' || इति च - तस्मादविद्यायां सत्यामपि शक्तयभिभवाद्वा, तूलाज्ञानना- शाद्वा, अवस्थाविशेषप्रच्यवाद्वा, एकदेशनाशाद्वा, भीरुभटवदप- सरणाद्वा, कटवत्संवेष्टनाद्वा, आवरणभङ्गानिर्मोक्षबाधानामुप- पत्तिः । नन्ववस्थाविशेषाणामज्ञानाभिन्नत्वे एकाज्ञानपक्षक्षतिः, अज्ञानभिन्नत्वे च साक्षाज्ज्ञानेन निवृत्तिर्भमाद्युपादानत्वं च न स्यात्, तेषामिव रूप्यस्यैवोपादाननाशं विना नाशप्रसङ्गव, शुक्तयज्ञानं नष्टमित्यनुभवविरोधश्चेति – चेन; यतोऽवस्था ताव- रूपः अज्ञानैक्यात् तदापि घटादिवृत्त्या सम्पद्यमानः स तत्स्वरूप इति घटाद्यवच्छिन्न एवेति भावः । शक्तचभिभवाद्वेत्यादि । शक्तिरावरण- शक्ति: तूलाज्ञानमावरणविक्षेपशक्तियुक्तं ब्रह्मान्यज्ञाननाश्यं मूलाज्ञान- तादात्म्यानापन्नमज्ञानम्' । मूलाज्ञानतादात्म्यापनं तु तादृशाज्ञानमवस्था - विशेषः । एकदेशनाशस्तु वृत्तौ सत्यामज्ञानस्य 'स्वकार्याक्षमत्वम् । तत्र वृत्तिकालाभावविशिष्टमज्ञानं भानविरोधीति स्वीकारादुपान्त्यपक्षः । वृत्त्युत्पत्तिक्षणोत्तरवृत्तिकालाभाव विशिष्टमज्ञानं भानविरोधीति स्वीकारा - दन्त्यपक्षः । अत एव हस्तसंयोगोत्पत्त्युत्तरं यथा कटस्य वेष्टनम्, तथा वृत्त्युत्पत्त्युत्तरमज्ञानाभिभवः । यथा च प्रतिभटागमनक्षण एव भीरुभटापसरणम्, तथा वृत्युत्पत्तिक्षण एवाज्ञानाभिभव इत्यभिप्रायेण दृष्टान्तौ सङ्गच्छेते । एवं च नानाज्ञानपक्षे यथा वृत्त्या वृत्तिरेव वाऽ- ज्ञाननाश इति पक्षौ, तथैकाज्ञानपक्षेऽपि वृत्तिकाले वृत्त्युत्पत्त्युत्तरकाले वाऽज्ञानाभिभव इति पक्षाविति ध्येयम् । वक्ष्यमाणरीत्या चरमपक्षाभ्यां 1 युक्तब्रह्मान्यज्ञान नाश्यमूलाज्ञानतादात्म्यानापन्नमज्ञानम् -क.