पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रतिकर्मव्यवस्थोपपत्तिः 147 त्युक्तमिति – वाच्यम्; अविद्याकल्पितांनां सर्वज्ञत्वादीनां शुद्धे सत्वात् । अन्यथा तेषां तटस्थलक्षणत्वमपि न स्यात् । ननु - आवरणाभिभवार्थत्वपक्षो न युक्तः; विवर्ताधिष्ठानस्य चिन्मा त्रस्याज्ञानादिसाक्षित्वेन सदा प्रकाशनात्, अन्यस्याज्ञानकल्पि- तस्यावरणस्याभावादिति चेन्न; अज्ञानादिसाक्षित्वेन स्वप्रका- शेऽप्यशनायाद्यततत्वादिना प्रकाशाभावादावरणस्यावश्यत्वात् । नन्वज्ञानस्य नयनपटलवत्पुंगतत्वे चैत्रस्याज्ञाननाशेऽपि मैत्रस्य तदनाशादप्रकाशो युक्तः । विषयगतत्वे तु चैत्रार्जितया वृत्त्या अज्ञाने दीपेन तमसीव नाशिते मैत्रस्यापि प्रकाशः स्यादिति - चेन्न; चैत्रावरणशक्तेरेवाज्ञानगतायाश्चैत्रार्जितवृत्त्या नाशितत्वेन स पश्यति, न मैत्रः; तत्प्रतियोगिकावरणशक्तेरनाशात्, आवरण- शक्तीनां द्रष्टृविषयभेदाभ्यां भिन्नत्वात्, तमस्तु न तथेत्येका- नीतप्रदीपेनाप्यन्यान्प्रति प्रकाशो युज्यते । एतेन – एकाज्ञान- पक्षे शुक्तिज्ञानेन तदज्ञाननिवृत्तौ सद्य एव मोक्षापातः, अनिवृत्तौ रूप्यादेः सविलासीविद्यानिवृत्तिरूपबाधायोग इति – निरस्तम् ; आवरणशक्तिनाशेऽपि मूलाज्ञाननाशाभावेन सद्यो मोक्षाभावस्य रूप्यादौ सविलासशक्तिमदविद्यानिवृत्तिरूपवाधस्य चोपपत्तेः । ननु – एकाज्ञानपक्षे रूप्यादेः शुक्तिज्ञानेन स्वकारणे प्रविलय- - कल्पितानामिति । परमार्थतः शुद्धमध्यविद्ययेव तत्परिणाम सर्वरूपेण सार्वज्ञ्यादिनापि कल्पितेन सम्बध्यत इति भावः । तेषामिति । शुद्धं प्रतीति शेषः । उक्तं हि विवरणादौ तेषां शुद्धं प्रति तदिति भावः । अन्यस्याज्ञानकल्पितस्येति । अन्यस्मिन्नज्ञानकल्पिते इत्यर्थः । कल्पितत्वाच्छुद्धान्यदनावृतमित्यर्थः । अज्ञानादिसाक्षीत्यादि । अज्ञानाद्युपाध्यवच्छेदेन प्रकाशेऽप्यशनायाद्यतीतत्वोपलक्षितपूर्णानन्द- 10*