पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रतिकर्मव्यवस्थोपपत्तिः 126 एवं मणावप्युक्तम्– 'तण्डुलक्रयणादिदशायां पचतीति स्यादि- त्याशङ्कय यादृशोऽनुकूलताविशेषाश्रयो व्यापारः परेषामर्थः, तादृशो यत्नो ममापीत्याद्यपि चोक्तम् ॥ यतु यत्नत्वमेव शक्यतावच्छेद कमनुकूलत्वं तु सम्बन्धतया भातीति पक्षधरादिभिरुक्तम्, तन्न ; तथा सति वर्तमानत्वसमानाघि- करणानुकूलत्वस्यैव सम्बन्धत्वापत्त्या वर्तमानत्वादेर्लङाद्यवाच्यतापत्तेः । समवायादीनामेव सम्बन्धत्वेन भानम्, न वर्तमानत्वादेरित्युक्तौ त्वनुकूल. त्वादेरपि वाच्यत्वौचित्यात् करोते: सकर्मकत्वानुरोधेनानुकूलयत्नार्थता- वश्यकत्वे आख्यातस्यापि तदावश्यकत्वाच्च । अन्यथा ग्रामं गच्छती- त्यादावपि संयोगादेः सम्बन्धतापत्तेः । अतएव 'भूवादयो धातव' इति सूत्रे कृञ उत्पादनार्थकत्वमन्यथा यतिवदकर्मकतापत्तेरिति महा- भाष्यादावुक्तम् । 'कर्मवत्कर्मणा तुल्यक्रिय' इति सूत्रे चान्यै- रुक्तम्- -▬▬▬▬▬ ( - } - 'कृञोऽकर्मकतापत्तेर्न हि यत्नोऽर्थ इष्यते । किंतूत्पादनमेवातः कर्मवत्स्याद्यगाद्यपि ' ॥ कर्मकर्तर्यन्यथा तु न भवेत्तदूहशेरिवेति ॥ अस्यायमर्थः, यतः सकर्मकतानुरोधनोत्पादनं कृञोऽर्थः, अतः कर्मवदित्यादिसूत्रेण यगादेर्विहितत्वात्कियते कटः स्वयमेवेति स्यात् । यत्नमात्रार्थकत्वे तु यत्नस्य कर्मस्थत्वाभावात्तन्न स्याद्दश्यते घटः स्वय- मेवेतिवत् । यद्यपि दृश्यादिधातुः कर्मस्थफलं वक्ति सकर्मकत्वात्, तथापि प्राप्य कर्मणि न कर्मवद्भावः । तदुक्तम् - ‘निर्वये च विकार्ये च कर्मवद्भाव इप्यते । न तु प्राप्ये कर्मणीति सिद्धान्तोऽयं व्यवस्थित ' इति ॥ प्राप्यत्वं क्रियाकृतविशेषेणानुपलभ्यमानत्वम् । न वयं घटः