पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धो [प्रथमः केवलाग्नथदाह्यस्याप्ययःपिण्डादिसमारूढाग्निदाह्मत्ववच्च, केवल- 118 चतन्याप्रकाश्यस्यापि तत्तदर्थ- श्यत्वं युक्तम् । एवं चानावृतत्वपक्षे तत्तदाकारवृत्तिद्वारा चैतन्यस्य तत्तदुपरागे तत्तदर्थप्रकाशः । आवृतत्वपक्षे तत्तदा- कारवृच्या तत्तद्विषयावच्छिन्नचैतन्यावरणाभिभवेन प्रकाशः । अन्तःकरणावच्छिन्नचैतन्यरूपत्वे जीवस्यावच्छेद- कान्तःकरणतत्तद्विषयाकारवृत्त्या तत्तद्विषयावच्छिन्नचैतन्याभि-. व्यक्तौ तत्तत्प्रकाशः । यद्यपि प्रकाशकमधिष्ठानचैतन्यं सर्वगतं जीवचैतन्यं चान्तःकरणावच्छिन्नम्, तथापि चैतन्याभेदेनाभि- व्यक्तत्वाद्व्यवस्थोपपत्तिः ॥ घटादस्तत्तदाकारवृत्युपारूढचतन्यत्रका- निर्विकल्पकावेधत्वाच । तस्य सादित्वं तु वक्ष्यते ॥ नन्वेवमविद्यादी भासकतानियामकत्वेन क्लृप्तस्य प्रतिबिम्ब- सम्बन्धस्याभावाद्धटादिकं जीवस्य नैव भायात्तत्राह -केवलाग्री- त्यादि । यथा आनः सर्वगोऽपि तृणायः पिण्डादिनाऽभिव्यको दहति; न त्वनभिव्यक्तः; तथा वृत्त्यभिव्यक्त एव जीव: प्रकाशयतीत्यम्बय- व्यतिरेकाभ्यां स्वप्रतिबिम्बवद्वत्त्युपरागोऽपि भासकतानियामक इति भावः । चैतन्याभेदेनेति । अधिष्ठानीभूतस्य ब्रह्मचैतन्यस्य मनोडन- वच्छेदप्रयुक्तो यो जीवाद्भेदस्तदभावेनेत्यर्थः ॥ 1 1 यत्तु जीवस्य सर्वगतत्वपक्षे स एव विषयप्रकाशक इत्यत्र विष याधिष्ठानत्वं हेतुरुक्तः, तन्मौढ्यात्; सर्वगतत्वपक्षे आवृतत्वपक्षे उपा- दानत्वेऽप्यनावृतत्वपक्षे जीवस्यानधिष्ठानत्वात् । यदपि सर्वगतो. जीवों वृत्त्येव तद्विषयेणाप्युपरज्यताम्, गोस्वदृष्टान्तस्तु विषमः; गोस्वं हि साना- दिमव्यक्तया ज्ञायते, ब्रह्म तु वृत्त्या न ज्ञायते, किंतु ज्ञानत्वमापद्यते । , 1 अनावृतत्वपक्षे-ग.