पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रतिकर्मव्यवस्थोपपत्तिः 116 द्वितीये त्वावरणार्भभवार्था । परिच्छिन्नत्वपक्षे तु जीवचैतन्यस्य विषयप्रकाशकतदधिष्ठान चैतन्याभेदाभिव्यक्त थर्था । अनावृतत्वपक्षे द्यपरागस्य भासकतानियामकस्वेऽपि धर्मादौ ब्रह्माण चावरणसत्वादना वृतोक्तोपरागस्यैव तथात्वेनाढोषाच्च । अत एव स्वतो मनउपरक्तस्यापि धर्मब्रह्मादेर्न सर्वदा मानम् ; आवरणेन चैतन्यस्य तदाकारत्वाभावादिति, विवरणसिद्धान्तबिन्द्वादावुक्तम् । एवं च घटादावुपरागो ब्रह्मणि त्यावरणाभिभव एव वृत्तेः प्रयोजनमिति ध्येयम् || ● द्वितीये विति । तु शब्दाज्जीवोपरागार्थत्वव्यवच्छेदः । जीव- स्योपादानत्वे तादात्म्यरूपोपरागस्य सिद्धत्वादिति शेषः । अभेदाभि- व्यक्तथर्थेति । मनोऽनवच्छेदप्रयुक्तं जीवाद्भेदं मनःपरिणामः स्वा' व च्छेदाद्ब्रह्मणि वृत्तिर्नाशयति । स्वत एव मनोवच्छिन्नस्य सुखाद्यवच्छिन्न- 'ब्रह्मचैतन्यस्य तु सुखादिभासनाय न वृत्त्यपेक्षा | ब्रह्मणो धर्मादेश्च मनोऽवच्छिन्नस्याप्यावृतत्वादेव न मानम् । अतएव ब्रह्मणि न जीवा- भेदाभिव्यक्तर्था वृत्तिः, किं त्वावरणाभिभवार्था । उक्तं चं सिद्धान्त- बिन्दौ – जीवस्य जगदुपादानत्वे आवरणाभिभवार्था । ब्रह्मणस्तत्वे त्वावरणाभिभवार्था प्रमातृचैतन्यांपरागार्था चेति । यद्यप्यभेदार्थेत्येव वक्तु- मुचितमधिकस्य व्यर्थत्वापत्ते, तथाप्यभेद सम्पत्तिमात्रेण नाभेदाभि- . व्यक्तिः; रूपादिमात्राकारवृत्त्या रसाद्यवच्छिन्नचैतन्यस्य प्रमात्रभेदसम्प- तावपि मया रसो विदित इत्यादिव्यवहाराभावात् । अतोऽमेदव्यवहार- सम्पादकवृत्तिविषयत्वरूपमभेदाभिव्यञ्जकं वृत्तिप्रयोजकं ज्ञापयितुमभि- व्यक्तीत्युक्तम् । शुद्धं ब्रह्म नोपादानं जगतः; किं त्वविद्ययोपहितं विशिष्टं वेति पक्षे तु शुद्धब्रह्मणि मनस्तादात्म्याभावेन जीवानुपरागा- देवाभानोपपत्तावप्यावरणस्य शुद्धं ब्रह्म न जानामीत्यनुभवसिद्धत्वात् : 2 1 परिणामस्वा-क. ग. 2 व्यर्थत्वात्-- --ख. 8 प्रयोजकं - ग. ४*