पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

106 सभ्याख्यायामद्वैतसिद्धौ [ प्रथमः प्रामाणिकत्वे यथाकथंचन लक्षणं भविष्यति । तथाहि-संयोग- समवायान्तर्भावे तल्लक्षणमेत्र लक्षणं भविष्यति, तदनन्तर्भावे तु तदुभयभिन्न सम्बन्धत्वमेव लक्षणमस्त्विति-निरस्तम्; उक्त- युक्तया प्रामाणिक सम्बन्धस्य संयोगसमवायान्तर्भावस्य च दूपितत्वात् । तदुभयचहिर्भूतसम्बन्धत्वं तु वयमपि न निराकुर्मः, किंतु तस्य प्रामाणिकत्वम् । किञ्च दृग्दृश्ययोर्न तात्विक सम्बन्धः; सम्बन्धिभिन्नत्वेऽनवस्थानात् । न च दृश्यत्वान्तरहीनस्य दृश्य- त्वादेवि सम्बन्धस्यापि स्वनिर्वाहकत्वं क्वचित् भविष्यतीति- वाच्यम् ; दृश्यत्वमपि दृक्सम्बन्ध एव । तस्य च स्वनिर्वाहकत्वं न मायिकत्वं विनेति नास्माकं प्रतिकूलमभ्यधायि देवानां - प्रियेण; अभिन्नत्वे सम्बन्धत्वायोगात् । न चैवमाध्यासिक- सम्बन्ध त्वेऽप्येतद्दोपप्रसङ्गः तस्य मायिकत्वेन मायाया वाघटि- प्रसङ्गः । तस्माद्विशेषान्तरं मिथ्यासम्बन्धरूपं वाच्यम् । तच्च कथमुप- पद्यत इति जिज्ञासा तदुपपादनं च न व्यर्थम् । सम्बन्धसामान्यस्थापन - द्वारा उक्तातिप्रसङ्गनिरासस्य फलत्वादित्यर्थः । सम्बन्धिभिन्नत्वे इति । दृदृश्ययोः सम्बन्धमात्रस्य स्वसम्बन्धिभिन्नत्वे इत्यर्थः । अनवस्था- नादिति । घटतशो: स्वभिन्नसम्बन्धे दृक्सम्बन्धान्तरं तत्रापि तदन्तर- मित्येवमनवस्थानादित्यर्थः स्वनिर्वाहकत्वं स्वप्रति सम्बन्धत्वम् । दृश्यत्वेऽनुपपत्तिपरिहाराय तदेव दृष्टान्तीकुर्वन् पशुरस्तीत्याह देवाना- मिति । नन्वन्यत्र हक्सम्बन्धः संबन्धिभ्यां भिन्नोऽपि स्वस्मिन् सम्बन्धितायां न तथात्वमपेक्षत इति स्वाभाव्यान्न मायिकत्वमित्याश- ट्र्याह – अभिन्नत्वे इति । सम्बन्धायोगात् सम्बन्धत्वायोगात् । स्वं न स्वस्य न वा स्वस्मिन् प्रतीतेः स्वप्रतियोगिकत्वस्वानु- 3 स्वस्तिक. ग. | स्वं प्रति-स्व. ग. " स्वेन स्वस्थ - ग.