पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. परिच्छेदः] अनुकूलतर्कनिरूपणम् 89 नाध्यासानुपपत्तिः । अतिप्रसङ्ग परिहारार्थ चैतन्यस्य विषय- सम्बन्धे वृत्युपरागापेक्षायामपि नाधिष्ठानत्वेन तदपेक्षा । एवमेव नित्यपरोक्षस्थले स्मृतिस्थलऽपि प्रातिभासिकस्य प्रातिभासियां वृत्तावनध्यासेऽप्यधिष्ठानविषयकवृत्त्य भिव्यक्तचैतन्य एवाध्यास इति न काप्यनुपपत्तिः । न च-रूप्यादिकमिदमंशावच्छिन्न- चैतन्येऽध्यस्तम्, भास्यते च अविद्यावृत्तिप्रतिबिम्बितचैतन्येनेति विषयिणि ज्ञाने विषयस्याध्यासः कथमिति वाच्यम्; एकाव- तथाच यत्र विषयोऽध्यस्तस्तस्य ज्ञानत्वनियमो न तु ज्ञानत्वोपहि- तस्य विषयाधिष्ठानत्वनियम: ; प्रत्यक्षस्थले (ऽपि ) तदभावात् । यद्यपि जीवस्यैवान्तः करण तद्धर्मोपादानत्वं ब्रह्मणस्तु घटायुपादानत्वमिति पक्षे बह्मणो (" वृत्तितादात्म्यरूपावच्छिन्नत्वाभावात् । परोक्षभ्रमविषयीभूत- रजताद्युपादानशुक्त्याद्यवच्छिन्न चैतन्ये तादृशरजतादिविषयकाविद्या)वृत्ति- तादात्म्यरूपावीच्छन्नत्वस्याभावात् । तद्भावे साक्षिसम्बन्धेन ताह- शरजतादेरपरोक्षत्वापातान्नोक्तोऽपि नियमः, तथापि यत्र विषयोऽध्य- स्तस्तस्य वृत्त्यवच्छिन्नचैतन्याभेदनियमो न व्याहतः, ब्रह्मणो वृत्तितादा- त्म्यवज्जीवाभिन्नत्वात् । (' शुक्तचवच्छिन्नादिरूपचैतन्यस्याप्यंविद्यापरि - णामवृत्तितादात्म्यवज्जीवाभिन्नत्वात् ) । वृत्तिविषयतादात्म्यवञ्चैतन्यस्या- सत्वापादकाज्ञानानवच्छेदकविषयतादात्म्यवच्चैतन्यस्य वा ज्ञानरूपत्वे त्वाधिष्ठानस्य ज्ञानत्वनियमे नानुपपत्तिः । प्रमातरि तत्सम्बन्धस्तु यथा- सम्भव वाच्य इति दिक् ॥ अतिप्रसङ्गेति । वृत्त्यभावकालेऽपि घटं जानामीति व्यवहारा- द्यापत्तीत्यर्थः । चैतन्यस्य वृत्तत्यित्र सम्बन्धः | विषयसम्बन्ध 12अयं कुण्डलितः पाठः ख पुस्तकें न दृश्यते.