पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धी [ प्रथमः शब्दाश्रयत्वमुदाहरणम् । अतएवाविद्यादिकं साक्षित्वादावुपाधि- रिति सिद्धान्तो वेदान्तिनाम् । अतो यत्र विषयस्य विशेषणत्वं नं सम्भवति, तत्कालासत्वात्, तत्रोपाधित्वाभ्युपगमान्नोप- नियमेन तदुद्बोधकादव तदंशेऽप्युद्धोध (क)नियमेनाशक्यस्यापि तस्य भानात् ' इति; तदंशे शक्ति विनापि तदुपहिते शक्ति 'ग्रहशक्यस्मृ- त्योस्तेन रूपेण शाब्दानुभवे कारणत्वं सम्भवतीति भावः । एषैव रीतिः पदमात्रस्येति तु नव्यतार्किकाः || साक्षित्वेति । अनावृतविषयप्रकाशत्वरूप साक्षित्वादावनुपरक्तं तदाश्रयव्यावर्तकानुपस्थापक्रमविद्यादिकमुपाधिरेवेति भावः । तत्रोपा- धित्वेति । यद्यपि यदधिकरणकाले यदविद्यमानं तत्र तन्न विशेषणं, न वोपाधिः, तदधिकरणकाले विद्यमानस्यैव स्वाश्रयान्विते तत्रोपरागा- नुपरागौ विशेषणत्वोपाधित्वे इति कल्पतर्वादावुक्तत्वात् । तथापि तन्मते प्रतियोग्यादेवसाढिव्यावृत्तिबुद्धावुपलक्षणत्वमेव स्वीक्रियते, उपलक्षण - लक्षणे व्यावर्तकान्तरोपस्थापकत्वानुपादानात् व्यावर्तकत्वस्यैव तल्लक्षणत्वात् । सर्वथाऽपि व्यावर्तक नुपस्थापकमवि- शेषणमपि व्यावर्तकं सर्वसम्मतम् || अविद्यमानत्वे सति 36 9 वस्तुतो विशेष्यव्यावर्तकधर्मोपस्थापक मे बोपलक्षणमिति पराभ्युप- गमेनेदमुक्तम् । न त्वत्रैवाचार्याणां श्रद्धा | स्वविशेष्यान्वितोपरक्तं व्यावर्तकं विशेषणम् । उक्तोपरक्तान्याद्वद्यमानं व्यावर्तकमुपाधिः । उक्तान्यदविद्यमानं व्यावर्तकमुपलक्षणम् । न तु व्यावर्तकान्तरोपस्थाप- कत्वघटितम् । यत्र धर्मान्तरस्यैव व्यावृत्तिव्याप्यत्वेन धीर्न तूपलक्षण- स्यैव, तत्रैव तस्य तदुपस्थापकत्वमावश्यकम् ; यथा काकादेश्चैत्रगृहे- तर व्यावृत्तिव्याप्यत्वे 'न न धीः; वृक्षादिषु व्यभिचारज्ञानात् कदापि 1 तदुपहितशक्ति-क. ग. 2 सर्वस्यापि. 3 गृहे इतर. 4 त्वेन धी:. .