पारच्छेदः] असतः साधकत्वाभावे बाधकनिरूपणम् 15 व्यावृत्तिधीहेतुधीविषयत्वमेव ; सत्यपि दण्डे तदज्ञाने व्यावृत्त्य: ज्ञानात् । अथावच्छेदकस्य मिथ्यात्वेऽवच्छिन्नस्यापि तत्रियमः, न; तुच्छज्ञाने तुच्छवैलक्षण्ये च तुच्छत्वस्य, प्रातिभासिका - द्वैलक्षण्ये प्रातिभासिकत्वस्य, पंचमप्रकारायामात्मस्वरूपभूतायां वाsनिर्वचनीयाज्ञानस्य निवृत्तौ चतुर्थप्रकारानिर्वचनीयत्वस्य, पारमार्थिकात्मस्वरूपे तद्भिन्ने बानृतद्वैतस्याभावेऽनृतत्वस्य चा- दर्शनात् तत्रावच्छेदकानामसदार्दानां ताटस्थ्येऽत्रापि तथास्त्विति तदुपहितस्य । तत्रावच्छेदकानामिति ॥ वस्तुतस्तु तुच्छोपहितरूपेण तुच्छज्ञानादेस्तुच्छत्वमेव । अत एव तेन रूपेण तस्य न प्रामाणिकत्वम् । अतएव प्रातिभासिकवैल- क्षण्यादेः स्वरूपतो व्यावहारिकत्वेऽपि प्रातिभासिकोपहित रूपेण प्रातिभा- सिकत्वमप्रामाणिकत्वं च । एवं पञ्चमप्रकारस्यापि स्वरूपेणैव तत्वम् | अविद्याप्रतियोगिकत्वाद्युपहितरूपेण त्वविद्यादशायां चतुर्थप्रकारत्वमेव । द्वैताभावस्यापि स्वरूपेणैव सत्त्वम् । द्वैताभावत्वोपहित रूपेण त्वनृतत्वम् । अतएव मुक्तौ न तदुपहितमिति मोहमूलैवात्र परोक्तिः । अतो मिथ्यो- पीहतरूपेण ज्ञानस्य मिथ्यात्वमावश्यकमिति ध्येयम् ॥ 'यत्तु प्रतिबिम्बस्य नानाविधत्वात् कचिद्याप्यवृत्तित्व सम्भवेन तदभावनियमोक्तिरयुक्ता; वर्णे दीर्घत्वादिप्रत्ययो ध्वनिद्वारा युक्त एव, ध्वनेरस्फुरणे तदप्रत्ययात्, वर्णग्रहकाले ध्वनेरपि योग्यत्वेन ग्रहनिय- माच, वस्तुगत्या दीर्घध्वन्यभिव्यक्तं यद्वर्णस्वरूपं तस्यैव दीर्घत्वरूपत्व- सम्भवाच्च । आरोपितस्य साधकताङ्गीकारे तु कारणतावच्छेदकदण्ड- त्वादेस्त्वन्मते दण्डाभासेऽपि सत्त्वेन ततोऽपि घटाद्यापत्तिः' इति, 1 प्रातिभासिकत्वं तत्त्वं च.
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५४४
दिखावट