पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ [ प्रथमः सत्त्वात्परमार्थसत्त्वं न साधकत्वे प्रयोजकम् । एवं स्वमार्थस्या- सतोऽपि भाविशुभाशुभसूचकत्वम् । यद्यपि तत्रत्यदर्शनस्यैव सूचकत्वम्, 'पुरुषं कृष्णं कृष्णदन्तं पश्यति' इत्यादि श्रुति- बलात्; तथापि दर्शनमात्रस्यातिप्रसक्तत्वेन विषयोप्यवश्य- मपेक्षणीय एव । एवं स्फटिकलौहित्यस्य उपाधिसन्निधान साधकत्वं च । न च लौहित्यं स्फटिके न मिथ्या, किंतु धर्म- मात्रप्रतिबिम्ब इति न पृथगुदाहरणमिति वाच्यम्; धर्मिभूत- मुखादिनैरपेक्ष्येण तद्धर्मभूतरूपादिप्रतिबिम्बादर्शनात्, प्रति- बिम्बस्याव्याप्यवृत्तित्वनियमेन लौहित्यस्य स्फटिके व्याप्य वृत्तिप्रतीत्ययोगाच्च । लौहित्ये स्फटिकस्थत्वारोपे तस्य प्रति बिम्बत्वम्, स्फटिके लौहित्यारोपे तु तस्य मिथ्यात्वमिति विवेकः । 'स्फटिकमणेरिवोपधाननिमित्तो लोहितमे' ति लोहि- तिम्रो मिथ्यात्वं दर्शितं प्रतिबिम्बसत्यतावादिभिः पञ्चपादिका - कृद्भिः । एवं रेखातादात्म्येनारोपितानां वर्णानामर्थसाधकत्वम् । न च रेखास्मारिता वर्णा एवार्थसाधका इति वाच्यम्; आशैशव- मयं ककारोऽयं गकार इत्यनुभवादभेदेनैव स्मरणात्, विवेके 12 , 6 श्रुतिबलादिति । 'आरुह्य नौकावृषकुञ्जरेषु भुक्ता रुदित्वा ध्रुवमर्थलाभः ' इत्यादिस्मृत्युन्नीतश्रुतिबलात्' । स्वप्नकालीनभोजनादिज्ञानापेक्षयोक्तभोज- नादेरेव लघुत्वात्, कृष्णदन्तादिविशेषणस्य सूचकत्वेन तद्विशिष्टदर्शन- स्योक्तश्रुतौ सूचकत्वनिर्देशा सम्भवाच्च, विषय एव सूचको न धीरित्या- शयेन यद्यपि तथापीत्युक्तम् । लिङ्गस्या कारणत्वमतेप्येवमपेक्षणीयता बोध्या । पञ्चपादिकेति । तथाच तन्मते तथोक्तेर्वाचस्पतिमते लौहि- त्यस्य प्रतिबिम्बत्वेऽपि न क्षतिरिति भावः । बिवेक इति । कस्य 1 इत्यादिस्मृतिबलात् ख. 2 निर्देशसम्भवाञ्चेति क. ख. ग. 3 लिङ्गस्याकरण ग -