पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ [ प्रथमः भंट्टाचार्यवचनानि विरुद्धवेन भासमानानि सत्त्ववैविध्यनिरूप - इति बौद्धं प्रति भट्टोक्तिस्तु युक्तैव । तेनाधिष्ठानस्याबाध्यस्वरूपस्यान- ङ्गीकारेण तत्सम्बन्धस्य कल्पितस्यापि वक्तुमशक्यत्वात् । अतएव कल्पनापीत्यादिना तदुक्तम् । अतएव च - तस्माद्यन्नास्ति नास्त्येव यच्चास्ति परमार्थतः । तत्सत्यमन्यन्मिथ्यैव न सत्यद्वयकल्पना || , इति बौद्धं प्रति भट्टोक्तिरपि युक्तैव । अबाध्याधिष्ठानाजी कारं विना प्रपञ्चे तद्वाध्य' त्वासम्भवात् निस्साक्षिकस्य चरमबाघस्यासम्भवाच । आस्तिकमते त्रिकालाबाध्यं सत्यं यत्स्वीक्रियते तद्विलक्षणं व्यवहार- कालाबाध्यरूपं व्यावहारिकसत्यं मया स्वीक्रियत इति स्वपरमतयोः सत्यद्वयकल्पनाया माध्यमकीयाया अयुक्तत्वात् । योगाचारस्यापि विज्ञानमेव परमार्थसत्यं, तत्र कल्पितो नीलाद्याकारो व्यावहारिकसत्यः, विशुद्धविज्ञाननिर्णयात्पूर्वमबाध्यत्वादिति कल्पनाया अयुक्तत्वात, क्षणि- कत्वेन मिथ्याविज्ञाननिष्ठस्य कल्पनाधिष्ठानत्वस्य तदभ्युपगतस्य पूर्वोक्क- रीत्याऽसम्भवात् । अतएव तयोर्मतयोरेव-- - तत्रार्थशून्यं विज्ञानं योगाचाराः समाश्रिता । 2 तस्याप्यभावमिच्छन्ति ये माध्यमिकवादिनः || इत्याद्युत्तरवार्तिकेन निरासः । अस्मन्मते तु प्रपञ्चस्य खण्डनयुक्तिभि- बधात्, स्फुरणस्वरूपस्य ब्रह्मणस्त्वधिष्ठानत्वेन बाधानुपलम्भेन बाध.. साक्षित्वेन चाबाधात्, 'सत्यस्य सत्यं प्राणा वै सत्यं तेषामेषसत्य' इति श्रुतिभिश्च सत्यद्वयकल्पना युक्ततमैव । विस्तरेण च सत्त्व त्रैविध्यमग्रे उपपादयिष्यत इत्यभिप्रेत्याह – भट्टेति । तथाच परमार्थसत एव साधकतेति नियमाभावात्सामान्यतः कालसम्बन्धित्वरूपेण तुच्छवैलक्ष- ण्येन कार्यमात्रं प्रति कारणत्वम् । विशेषतस्तु यादृशयोः कार्यकारणता 1 तद्धीबाध्य -ख. ग. 2 तस्याथ भा-क. ग - 10