पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] 501 विपक्षे च ज्ञानाभानेऽप्यर्थभानप्रसङ्गो बाधकः । न हि भिन्न- योरश्वमहिषयोस्सहोपलम्भनियमोऽस्ति । तस्मात्र ज्ञानातिरिक्तं सदिति प्राप्ते परिहारसूत्रं 'नाभाव उपलब्धेः' इत्यादि । 6 बाधेन सोपाधिकतानुमाने उपायभावेन सहोपलम्भः । आगमबाघोद्धारः नीलाधनुभव ' विषयकत्वावच्छेदेनानुभव विषयकत्वस्यास्तिकैरन ङ्गीकारान्न सिद्धसाधनम् | योगाचारेण तु एकव्यक्तेरेवानुभवत्वनी लत्वादिस्वीकारेण नीलत्वाद्याश्रयविषयकत्वावच्छेदेनैवानुभवविषयकत्वं स्वीक्रियत इति न बाधः । एवं– नीलाद्यनुभवः स्वसमसत्ताकनीलत्वादिसंसर्गयुक्तः, अनु- भवत्वात्, यो यद्विषयकानुभवस्स तद्वृत्त्यसाधारणधर्मस्य समानसत्ताक- संसर्गवान्, यथा अनुभवविषयकानुभवोऽनुभववृत्त्यनुभवत्वस्य स्वसमा- नसत्ताकसंसर्गवानिति सामान्यतो व्याप्तिरपि बोध्या । बुद्धयाऽर्थस्य सहेक्षणादित्यादे रनुकूलतर्कप्रदर्शनपरत्वमाह – न हीति । तथाच सहो - पलम्भ नियमजज्ञानभेदेनार्थानिरूपणम् । अतो ज्ञानत्वात् ज्ञानमर्थाका- रकमिति बुद्धयेत्याद्यर्थ इति भावः । ननु बौद्धमते तुच्छस्य ज्ञानत्व- शून्यस्यापि ज्ञानविषयत्वाद्व्यभिचारस्तत्राह – तस्मान ज्ञानातिरिक्तं सदिति । ज्ञानत्वशून्यं न सत् न तुच्छविलक्षणमित्यर्थः । तथाच तुच्छविलक्षणविषयकज्ञानत्वमेवानुभवत्वम् | तुच्छज्ञानं तु विकल्पो नानु- भव इति न व्यभिचार्यनुभवत्वमिति भावः । बाघेनेति । सहार्थे तृतीया । ज्ञानादत्यन्तभेदेनार्थस्य मानैरुपलम्भात् ज्ञानज्ञेययोर्भेदाभेदवादिनोऽनु मानं बाघितार्थकं बाध्यत्वाद्युपाधियुक्तं चेत्यर्थः । उपायेति । यथा प्रभा उपायभूता रूपग्रहे विषयसन्निकृष्टत्वात् तावतापि न रूपं प्रभात्मकं, तथा ज्ञाने उपायभूतो विषयस्तज्ज्ञाने विषयीभवति, विष- योपरागेणैव ज्ञानग्रहात् । परोक्षज्ञानेऽपि गृह्यमाणे विषयज्ञानस्योपायत्वा 1 वत्वाबच्छदेन. 2 नियमात् ज्ञानाभेदेनार्था. 3 सतुच्छ विलक्षणमित्यर्थः