पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

490 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः न तु सत्वश्रुतेर्नेति श्रुत्यपेक्षा; अन्यथा अन्योन्याश्रयापत्तेः । ननु – उत्सर्गापवादन्यायोऽस्तु | यथा हि 'न हिंस्यात् सर्वा भूतानि ' इति श्रुतिरविशेषप्रवृत्तापि हिंसात्वसामान्यस्य प्रत्य- क्षादिप्राप्तत्वान्निषेध्योपस्थितौ नाग्नीषोमीयवाक्यमपि निषेध्य- समर्पणायापेक्षते, तथा 'नेति' इत्यादिश्रुतिरविशेषप्रवृत्ताऽपि व्ववस्थापनेनेत्यर्थः । न तु सत्त्वश्रुतेरिति । न च सत्त्वश्रुतेरबाध्यत्व- विषयकत्वाद्वाध्यताप्रसञ्जकनेति'नेतीत्यादिश्रुत्यपेक्षा युक्तेति वाच्यम्; सन् घट इत्यादिप्रत्यक्षगृहीतमबाध्यब्रह्मतादात्म्यं घटादौ सत्त्वश्रुति- बोधयति, न तु स्वसमानाधिकरणात्यन्ताभावाप्रतियोगित्वम् । येन तादृशाभावप्रतियोत्वस्य घटादौ प्रसञ्जिकां नेतीत्यादिश्रुतिमपेक्षेत । उक्ततादात्म्यस्य भावरूपत्वान्न तदभावरूपप्रतियोगिप्रसञ्जिकामपि तामपे- क्षते । ब्रह्माविशेषणत्वेनाबाध्यत्वज्ञानं प्रति बाध्यत्वज्ञानापेक्षणेऽपि विश्वबाध्यत्वयोस्संसर्गबोधनं श्रुत्यधीनं नापेक्षितम् । किञ्च सत्त्वश्रुतेर्यदि त्रिकालबाध्यत्वस्य यदिवाव्यवहारकालबाध्यत्वस्याभावो विषय; उभय- थापि प्रतियोगितावच्छेदकेन कालाघटितयाध्यतात्वेन न बोधिकोक्तश्रुतिः; किंतु स्वसमानाधिकरणात्यन्ताभावप्रतियोतात्वरूपबाध्यतात्वमात्रेण । यादतु सन् घट इत्यादिप्रत्यक्षे मायावच्छिन्नचैतन्यसम्बन्धरूपं सत्त्वमेव विषयः, तस्यैव तत्त्वदीपनादौ व्यावहारिकसत्तात्वोक्तेः, तदा सत्त्वश्रुते- राप तदेव विषयो न तु बध्यत्वाभावः । सर्वथा नेतीत्यादिश्रुतिर्न सत्त्व- श्रुत्यपेक्षणीया । किञ्च सत्त्वश्रुत्या प्रपञ्चे बाध्यत्वाभावस्य बोध्यत्वेऽपि नेतीत्यादिश्रुत्या, ' एवं सौम्य स आदेश' इत्यदिश्रुत्या च तदभावस्य प्रपञ्चे बोधानात्तदंशेऽनन्यशेषत्वं तस्या अव्याहतामति माव: । नानी- षोमीयवाक्यमिति । तथाचा मीषोमीयवाक्यमपवादशास्त्रं सदुत्सर्गशा- स्वस्य न हिंस्यादित्यस्य बाधकमित्युत्सर्गापवादन्याय इति भावः । 2 1 नित्यशेषत्वं. भावात्.