पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकाय [ प्रथम: स्यादभेदज्ञानस्यैव साक्षान्मोक्षहेतुत्वात् । अत एव प्रेरकत्व- ज्ञानस्य जोपहेतुत्वमुक्तम् । तथोत्तरत्रापि 'वेदविदो विदित्वा 488 " रूपकेवलार्थकम् । अतएव नेह नानेत्यग्रिमवाक्येन कैवल्योपपादनं “अद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः " " अन्योऽसावन्योऽह- मस्मीति न स वेद यथा पशु:, प्रत्यस्ता मतभेदं यत्सत्तामात्रमगोचरम् । वचसामात्मसंवेद्यं तज्ज्ञानं ब्रह्मसंज्ञितम् || तद्भावभावनापन्नस्ततोऽसौ परमात्मना । भवत्यभेदी भेदश्च तस्याज्ञानकृतो भवेत् " || इत्यादिश्रुतिस्मृतिसहस्रं च सङ्गच्छत इति भावः । न च सङ्ख्यावा- चकादेकशब्दात् धाप्रत्ययविधानात् केवलार्थकोत्तर स्सोऽसाधुरिति वाच्यम्; कैवल्यस्यापि बुद्धिविषयत्ववद्गौणैकत्व सङ्ख्यात्वात् । एको देव इत्यादौ नाम्ना, येन जातानि जीवन्तीत्यादावेकवचनेन च तस्यैव प्रत्ययात् । अन्यथा सद्वितीयत्वशङ्कानुपमर्दात्, तादृशसङ्ख्योपलक्षित- बोधकस्यापि सौनसङ्ख्याशब्देन ग्रहीतुं शक्यत्वात् एकशब्दस्य सङ्ख्या- वाचकत्वेऽपि विषयितारूपैकप्रकारयुक्तदर्शनलाभेन निर्विकल्पकदर्शनला - भसम्भवात्, सविकल्पकस्य विशेष्यतादिरूपनानाप्रकारयुक्तत्वेन व्याव- र्तनसम्भवात् । अभेदज्ञानस्येति । चिन्मात्ररूपाखण्डाभेदज्ञानस्येत्यर्थः । जोषेति । ब्रह्मलोकाद्यवच्छिन्नप्रीतिविशेषरूपजुष्टशब्दार्थेत्यर्थः । अतएवाव्यवहितोत्तरत्वबोधकं तत इति पदमपि सङ्गच्छते । प्रेरकत्व- मतेर्मोक्षहेतुत्वे तु मध्ये जोषोक्तिरसङ्गता । तेनेति तृतीया तु अमृत- त्वाप्तौ मननस्य प्रयोज्यतां ज्ञाप्यतां वा बोधयतीत्यपि बोध्यम् । यद्यपि जुष्टः शमादिसामग्रया प्राप्तस्सन्नात्मानं क्षेत्रज्ञं प्रेरितारमीश्वरं च 1 र्थकात्ततः. ,