पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

486 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः - इति । अथ – निष्प्रपञ्चता न पुरुषार्थः, मूर्छायां तत्त्वादर्शनात् ; न च तदा तदज्ञानमात्रं न तु तदभाव इति वाच्यम्; समं सुषुप्तावपीति – चेन्न; मूर्छायां स्वरूपसुखस्फुरणाभावात् । तथा च सूत्रम् – 'मुग्धेऽर्धसम्पत्तिः परिशेषात्' इति । सुषुप्तिमुक्ति- कालीननिष्प्रपञ्चतायां स्वरूपसुखानुभवेन तस्याः पुरुषार्थत्वात् । तथाच श्रुतिः - 'द्वितीयाद्वै भयं भवति' इति । अथ 'तस्मा- मिश्रितदुःखमूलजाग्रदादिप्रपञ्चशून्यत्वेन यथा जाग्रदादिसाक्षिसुखापेक्षया सौषुप्तसाक्षिसुखमतिशयितत्वेन पुरुषार्थ इति व्यवहियते, तथा तद - पेक्षयापि मुक्तिसुखमतिशयितत्वेन व्यवह्रियते, तादृशप्रपञ्चतन्मूलाविद्या- शून्यत्वादित्याशयः | सुपुप्तावपी त्यपिः हेतौ, तेन तदभावान्नासङ्गतिः । सुस्वस्फुरणेति । सुखस्यानावृतत्वेत्येर्थः । तदानीमुक्तप्रेमा' नुदयेन साक्षिण आवृतत्वम् । अतएव दु वाभावोअप न तदा स्फुरतीति भावः । मुग्धे मूर्छावस्थारूपे मूढे आवृत इति यावत् । शेषः । अर्धसम्पत्तिः सुषुप्तिरूपसम्पत्तेरर्ध परिशेषात् ज्ञानेन्द्रियाणामुपरमेऽपि कर्मेन्द्रियाणामनु- परमात्पूर्णसम्पत्त्यभावात्, ' कर्मेन्द्रियाणामनुपरमश्च मुखहस्तादिचेष्टावि- शेषादिति सूत्रार्थः । सुषुप्तौ जाग्रदादिप्रपञ्चाभावः “ सुषुप्तिकाले सकले विलीने पुनश्च जन्मान्तर कर्मयोगात् । ततस्तु जातं सकलं विचित्रं, एवमे- वास्मादात्मनस्सर्वे प्राणास्सर्वे लोकास्सर्वे देवाम्सर्वाणि भूतानि व्युच्च रान्त ” इति सुषुप्तौ लीनप्रपञ्चसृष्टिबोधक श्रुतिभ्यस्सिद्ध' इत्याशयेनाह--- सुषुप्तिमुक्तीति । पुरुषार्थत्वात् जाग्रदादिस्वरूप सुखानुभवापेक्षया अतिशयितपुरुषार्थत्वात् । ननु यत्किञ्चित्प्रपञ्चाभावस्सुषुप्ताविव जाग्र- त्स्वप्नयोरप्यस्तीति कथं सौषुप्तसुखस्य जाग्रत्सुखापेक्षयाऽतिशयस्तत्रा- तथाच श्रुतिरिति । द्वितीयादिति । विषयादिरूपात्स्वा भन्नात् भयं भव- तीति, देहेन्द्रियविषयरूपस्य सुखसाधनस्याप्युक्तरीत्या भयहेतुत्व मित्यर्थः । 1 प्रमा. 2 कर्मेन्द्रियानुपरमश्च. 3 4 साध्य. स्वरूपस्य.