476 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः - तया तेन प्रयोजनेन स्वार्थपरत्वस्य वक्तुं शक्यत्वात् । विषयकत्वं तु श्रुतेः पूर्वमेव निरस्तम् । अन्यथा प्रत्यक्षादिगृहीत- सत्वविलक्षणसत्वग्राहकत्वादननुवादत्वस्यैव सत्वात्सप्रयोजनानुवादत्वो- क्तिस्तव विरुध्येत । तेन प्रयोजनेनेति । एतेन - वादिविप्रतिपत्ति- निरासप्रयोजनेन न स्वार्थपरता, न हि तत्स्वतः पुरुषार्थः, न वा चित्रा- दिफलपश्वादिवत्सर्वेषामर्थिनां सुखप्रयोजकत्वेन काम्यम्, न वा विद्व- द्वाक्यीयसमुदायसिद्धिरिव स्वतः पुरुषार्थस्वर्गादिमद्वाक्यापेक्षितम् । न च – प्रपञ्चसत्त्वस्य विप्रतिपत्त्यभावेन निश्चये कर्मानुष्ठानात्स्वर्गादि- मत्कर्मवाक्यापेक्षित एव विप्रतिपत्तिनिरास इति – वाच्यम्; विधिषु श्राद्ध एवाधिकारीत्यनेन मिथ्यात्वनिश्चयाभावस्यैव कर्मानुष्ठानेऽपेक्षा भामत्यादावुक्ता न तु सत्वानश्चयस्य । यदा तु विचारसहकृतबलवत्प्र- माणेन प्रपञ्चो मिथ्यात्वेन निश्चितः, तदा न कर्मानुष्ठानेऽधिकारः, नवा सत्यत्वनिश्चयस्य तदोपयोगः, पूर्वप्रवृत्तसर्वमानं बाधित्वैव मिथ्या- त्वनिश्चयस्य जायमानत्वादित्यादि सूचितम् || यत्तु – “अग्निर्हिमस्य भेषजम्" इत्यादावपि द्वीपविशेषवर्तिनां विप्रतिपत्तेस्तन्निरासरूपेण प्रयोजनेन स्वार्थपरत्वमिष्टम्, पुरुषविशेषं प्रत्येव च तस्यानुवादकत्वमिति, तत्तुच्छम् ; विधिसमभिव्याहृतानामर्थवादानां विध्येकवाक्यतानुरोधेन विध्यर्थान्वयिस्तुत्यर्थकत्वस्यावश्यकत्वात्तत्प्रयो- नेनैव सप्रयोजनार्थकत्वाच्च । न चैवं तादृशार्थवादेषु स्वार्थपरतापत्ति- स्तवा'सङ्गतति–वाच्यम्; यदि विश्वं सत्यमित्यादिश्रुतेस्तुतिपरत्वं विध्येकवाक्यतासम्पादकमुत्सृज्य विप्रतिपत्तिनिरास रूपप्रयोजनेन स्वार्थ- परता स्यात् तदा अग्निर्हिमस्येत्यादावपि तथा स्यात्, अविशेषादि- त्यभिप्रायेण तदापतेराचार्यैरुक्तत्वात् । किञ्चानारभ्याधीतानां पर्णता- दीनामपूर्वसाघनीभूतजुहाद्यङ्गत्वं न स्यात्, जुहादीनां वर्णमयत्वादौ , 4 तवागतेति
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४९६
दिखावट