पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां प्रतिबिम्बविशिष्ट आदर्शादेरादर्शान्तरे प्रतिबिम्बकल्पकत्वदर्श- नाच, बिम्बस्य द्वितीयादर्शसम्मुखत्वाभावेन तत्र कल्पकत्वा- योगात् । अन्यथा अतिप्रसङ्गात् । विस्तरेणचैतदग्रे वक्ष्यामः । तदेवं निराकृताः परमार्थसत्त्वे साध्ये षडमी हेतयः । एवमन्येऽपि निराकार्याः । अथ विमतं न सद्विलक्षणम्, असद्विलक्षणत्वा- तदसिद्धं; प्रपञ्चे सत्त्वसिद्धेः पूर्वं तन्मिथ्यात्वे मिथ्यात्वज्ञानस्य प्रमा- त्वासिद्धेः । नच व्यावहारिकप्रमात्वं निवेश्यं, न तु तात्त्विकं, तथाच तत्त्वावेदकत्वरूपप्रमात्वस्य तत्रासिद्धावपि मतद्वयेपि व्यवहारकालाबाध्य - मिथ्यात्वकप्रकारकत्वरूपस्य व्यावहारिकप्रमात्वस्य निश्चयोऽस्त्येव ; प्रप- श्चमिथ्यात्वं हि प्रातीतिकम्, यदि वा व्यावहारिकं, उभयथाऽपि तन्मिथ्या- स्वं व्यवहाराकालाबाध्यमिति वाच्यम्; व्यवहाराकालाबाध्यमिथ्यात्वकप- कारकत्वनिवेशे हि व्यवहारकालाबाध्यमिथ्यात्वाश्रयमिथ्यात्वं पर्यवसि- तहेतुः । तथाच यस्य प्रातीतिकस्य मिथ्यात्वे ब्रह्मज्ञानाव्यवहितपूर्व स्वप्नकाले वा मिथ्यात्वभ्रमः, तत्रापि हेतुसत्त्वात् व्यभिचारः । बाध्य- पदेन बाधयोग्यत्वनिवेशेऽपि स्वामभ्रमस्य मूलाविद्योपादानकत्वमते स्वाप्नमिथ्यात्वस्य व्यवहारकालबाघयोग्यत्वाभावात् । ततश्च तद्वार- णाय तत्त्वावेदकरूपाया उभयवादिसिद्धप्रमाया निवेशे तात्त्विकमि- ध्यात्वाश्रयमिथ्यात्वं पर्यवसितहेतुरिति हेतुविशेषणासिद्धिपर्यवसानम् । यदि च यद्यत्प्रातीतिकमिथ्यात्वं तद्वद्भेदकूटवन्मिथ्यात्वं हेतुरुच्यते, तदा दुर्जेयता । अप्रयोजकत्वं तु स्फुटम् । यदपि शुद्धस्य कल्प- कत्वोक्तिरयुक्ता, नित्यमुक्तिश्रुतीविरोधात्, तत्त्वत्तो नित्यमुक्तेः जीवेsपि सत्त्वात् । अतएव कल्पकस्याभावादाश्रयत्वविषयत्वादिकमपि न शुद्धस्य । न च शुद्धमेव कल्पकं, देहाद्यभावात् । नाप्युपहितं, अविद्याध्यासस्य स्वपरनिर्वाहकत्वे मानाभावात् । आदर्शान्तरे प्रति- 1 ब्रह्मज्ञानम्यवाहतपूर्वसत्व काले. A 402 [प्रथमः