पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाविबाघोद्वार: पारच्छेदः] किञ्च व्यावहारिकसवमात्रेणैव उपपत्तेः उक्तहेतोरप्रयो- जकत्वम् । परमार्थसत्वे बाधानुपपत्तिलक्षण प्रतिकूलतर्कपरा- 387 .7 विशेषणत्वं, लाघवेनाजन्यत्वस्यैव व्याप्यत्वात् । ननु व्यर्थत्वमसि- द्धम्, पक्षधर्मतौपयिकत्वात् व्यभिचारवारकस्यापि सार्थकत्वे अनु. मितिप्रयोजकत्वस्यैव बीजत्वादित्याशङ्कय, नीलधूमे नलित्वमपि न व्याप्यतावच्छेदकं, गौरवात्, किन्तु धूमत्वमेव, दण्डत्वेन कारणत्वे रूपमिव । एवं शरीराजन्यत्वेऽपि न शरीरमवच्छेदकं, गौरवात् । येन विशेषणेन बिना व्याप्तिः न गृह्यते, तस्यैव व्याप्यतावच्छे- दकत्वनियमात् । अतएव गन्धस्यैव व्यञ्जकत्वादित्यत्र रूपादिषु मध्य इति विशेषणं विना व्याप्तयग्रहात् तत्सार्थकमेवेत्यादि समा- धानमुक्तम् । उक्तं च तत्र पक्षधरैः पक्षधरै:--' गौरवमेव तदहेतुतायां बीजम् ' इति । किञ्च यद्विनापि यदवच्छेदेन व्याप्तिगृहांतुं शक्यते, त्तत्तत्राधिकत्वान्निग्रहस्थानम् । अतएव परं प्रति तेन रूपेण व्याप्ते - रुपन्याससम्भवेन अनुपयुक्तकल्पत्वात् उक्तविशेषण घटितहेतुतावच्छे- कघटितमेव व्याप्यत्वं वाच्यम् । तथाचोक्तविशेषणघटितत्वविशिष्टहेतु- तावच्छेदकस्य व्याप्यत्वासिद्धिविधया हेत्वाभासत्वमिति सर्वथा व्याप्य त्वासिद्धिदुर्वारा । उक्तं च तत्तैव – यन्निष्ठा यन्निरूपिता व्याप्तिः येन विशेषणेन विना गृहीतुं न शक्यते, तत्र तद्विशेषणं तद्वय' प्यतावच्छेदकं; अकतृत्वाचनठामैः शरीरं विनै प्रतियोगितया जन्यत्वमवच्छेदकं धूमे नीलत्वमिवेत्यादिपूर्वोक्तशङ्का- ग्रन्थेप्युक्तम् । न शरीराजन्यत्वे नीलधूमादौ च व्याप्तिरिति विशे- प्यमात्रे सा । तथाच स्वरूपासिद्धि; तद्वारणाय विशेषणोपादाने व्याप्यत्वासिद्धिरिति । अतएव स्वसमानाधिकरणव्याप्यतावच्छेदका- -1 1 निरूपितजन्यत्वाभाव. 2.5*