सामग्री पर जाएँ

पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः ] भाविबाधोद्धारः 385 तियोगित्वाभ्युपगमादारोपितत्वेन उभयसम्मतत्वरूपस्य वा प्रतिभासमात्रशरीरत्वरूपस्य वा प्रातिभासिकत्वस्य प्रसिद्धि- - रस्ति । अन्यथा सिद्धान्तेऽपि मिथ्यात्वानुमाने प्रातिभासि- कान्यस्यैव पक्षीकर्तव्यत्त्वाद्दोषसाम्यं स्यात् तथापि हेतौ प्राति - भासिकत्वविशेषणं व्यर्थम् । अनधिकरणत्वे सति असवानधि- करणत्वमात्रस्यैव परमार्थ सच्चसाधकत्पोपपत्तेः । शुद्धमेव हि ब्रह्म दृष्टान्तत्वेन अभ्युपेयम् । धर्मवतो दृष्टान्तत्वे साध्य वैकल्यापत्तेः । साध्यं तु बाधाभावरूपत्वादधिकरणस्वरूपमेव न धर्मः । धर्म्यतिरिक्ताभावानभ्युपगमस्योक्तत्वात् । तथाच चक्षुस्तैजसत्वानुमाने रूपादिषु मध्ये इत्यस्यासिद्धिवारकस्यापि व्याप्तिग्रहौपायकत्वेन व्यभिचारवारकविशेषणतुल्यतया यद्यपि सार्थकत्वम् | व्यभिचारवारकस्यापि सार्थकत्वे व्याप्तिग्रहौपाय- कत्वमात्रस्य तन्त्रत्वात् । तथापि 'क्षित्यादिकं न कर्तुजन्य भ्रमविषयत्वमात्रेण निषेधप्रतियोगित्वषीश्च मतद्वयेऽपि स्वीक्रियत इति भावः । अभ्युपगमात् प्रसिद्धिरस्तत्येिका योजना | पक्षहेत्वोः सत्य- न्तस्य प्रसिद्धिरस्तीत्यर्थः । देहात्मैक्यादौ बाधव्यभिचारादिवारणाय प्रातीतिकव्यावर्त कसत्यन्तस्थले विशेषणान्तरमाह - आरोपितत्वेनेति । अभ्युपगमादित्यनुषज्यते तेनैतादृशप्रातिभासिकस्यापि - पि न क्षतिः । प्रातिभासिकत्वस्य प्रसिद्धिरस्तीत्यपरायोजना | अनधिक- रणत्वेति । अस्मद्रीत्या प्रातिमासिके व्याभिचारप्रसक्तेरिदम् । साध- कत्बेति । व्याप्तिग्रहौपयिकत्वेत्यर्थः । ननु ब्रह्मण्यज्ञानविषयत्वाद्य- धिकरणत्वसत्त्वादनधिकरणत्वाभावेन व्याप्तयग्रहात् व्याप्तिग्रहौपयिक- तया तत्सार्थकं, तत्राह शुद्धमेवेति । उक्ताधिकरणत्वं चोपहित एव, न शुद्धे ब्रह्मणीति भावः । तैजसत्वानुमानेति । चक्षु- A.S.V. 25