पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] विश्वसत्यत्वानुमानभङ्गः 383 यत्तु - प्रथमे साध्ये व्यावहारिक सत्रमादाय सिद्धसाधनम्, द्वितीय- साध्ये तु वादिनः परमार्थत्वविशेषणं व्यर्थम्; व्यावर्त्याप्रसिद्धे- रिति, तन्न ; व्यावहारिकसचं सत्त्वेन व्यवहारमात्रमिति मतेन प्रथमप्रयोगादनुगतम् । पृथग्व्यावहारिकं सत्त्वमिति तु मते द्वितीयः प्रयोगः । न च विशेषणं व्यर्थम् ; परार्थानुमाने परं प्रति सिद्ध- साधनोद्धारस्य तत्प्रयोजनत्वात् । ईश्वरानुमाने जन्यं कृतिजन्य- स्वबाधक जाग्रद्बोधबाध्यस्वा प्मादिप्रातिभासिकदोषजज्ञानविषये स्वाप्नादि- प्रातीतिकविशेषे बाधादिक बोध्यम् | आद्यं द्वितीयेऽपि स्वाप्नगजादौ स्वबाघ कजाग्रद्वोध बाध्यस्वानगजाद्यभावबुद्धेः निषेध्यत्वेन विषये तद्बोध्यं, जाग्रद्बोधस्यापि तद्बाधनयोग्यत्वात् । स्वबाधनोपधायकं तु तत्तद्धी- विश्रान्तमननुगतत्वान्न निवेश्यम् । तृतीये त्वसिद्धि; ईश्वरनिष्ठज्ञानस्यैव स्वसमानाधिकरणेश्वरप्रसाद कोपरूप कर्मप्रागभाव (वा) समानकालीनत्वेन तद्वाध्याप्रसिद्धेः, 'पूर्वं तु बादरायणो हेतुव्यपदेशात्' इति न्यायेनान्तः- करणनिष्ठक्रर्माप्रसिद्धेः । स्वत्वबाधकत्वदोषत्वादेरनुगतस्याभावेन तत्त- त्प्रातिभासिकव्यक्तिभेदकूटपर्यवसानेन दुर्जेयत्वं तु पक्षत्रयेऽपि, ब्रह्म- ज्ञानबाध्यशुक्तिरूप्यादिप्रातीतिके बाधव्यभिचारादिकं तु पक्षषट्केऽपि बोध्यम् । परेणैव दूषणमाशङ्कय यदुद्धतं शिष्यव्युत्पादनाय तदनु- मोदते – यत्चिति । व्यवहारमात्रमिति | एकमेवाधिष्ठानीभूतं ब्रह्म- सत्त्वं कल्पिततादात्म्येन सदाकारस्य दृश्यप्रतीतिमात्र प्रकार इति मते सदिदमिति धीप्रकारस्वरूपैक्यादिसाधनेन सिद्धसाधनम् | त्रिकाला- बाध्यत्वोपलक्षितस्वरूपात्यन्ताभेदस्य प्रपञ्चे प्रतिवादिना अनङ्गीकारा- दिति भावः । अनुगतं सदिदमिति घीप्रकारव्यावहारिकमात्रविशेष्यक- धप्रिकारः पृथग्व्यावहारिकान्यविषयकसदिदमिति धीप्रकारादन्यद्वयर्थ. मिति सदिदमिति धीप्रकारस्य वादिमते परमार्थत्वानियमेन तम्मा- -