पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेद ] 381 त्वन्मते प्रातिमासिकस्याप्यसत्चेन व्यर्थविशेषणतया व्याप्य- त्वासिद्धेः । अस्मन्मतमाश्रित्य हेतूकरणे च देहात्मैक्ये ब्रह्म- ज्ञानेतराबाध्ये व्यभिचारात् । न हि प्रातिभासिकत्वं ब्रह्म- ज्ञानेतरवाध्यत्वादन्यत् । त्वया हि प्रातिभासिकस्य शुक्ति- रूप्यादेरपक्षत्वाय सत्यन्तमाद्यं विशेषणत्रयं विकल्पेन पक्षे प्रक्षिप्तम् । तत्र ब्रह्म वृत्तिव्याप्यमिति मतेनाद्यम् । तदनभ्युप- गमे तु शाब्दप्रमां प्रति तात्पर्यप्रमा हेतुरिति मतेन द्वितीयम् । अन्योन्याश्रयात् नं सा हेतुरिति मतेन तृतीयम् । तथाच त्म्यस्य विषयत्वेऽपि ' सङ्क्रनकल्पिततादात्म्यविषयकत्व परिग्रहः । व्याप्य त्वासिद्धेरिति । व्याप्यत्वलक्षणे व्याप्यतावच्छेकान्तराघटितहेतुतावच्छे- देशप्रेदम् । अशक्तिविशेषख्यापकतया व्यर्थविशेषणत्वस्य पुरुषनिग्राहकत्वं न तु हेत्वाभासत्वमिति मते तु व्याप्यत्वे प्रयोक्तृ- निग्राहकान्यहेतुनिष्ठत्वासिद्धेरित्यर्थः । अस्मन्मतमिति | देहात्मैक्यस्य त्वन्मते अनङ्गीकारेऽपि अस्मन्मतानुसारिहेतुप्रयोगे अस्मन्मतसिद्धदेहा- त्मैक्ये व्यभिचारवारणमावश्यकमिति भावः । ननु प्रतिभासमात्रशररित्वादि- रूपं प्रातिमासिकत्वं हेतौ निवेश्यं तस्य च देहात्मैक्ये सत्त्वान व्यभिचार इत्यत आह -- त्वया हीति । अन्योन्याश्रयादिति । शब्दैकगम्यार्थे तात्पर्यप्रम| शाब्दधीपूर्वमसिद्धा | न च शाब्दधजनना- नुकूलशक्तिरूपतात्पर्य तत्पूर्वमाप प्रमातुं शक्यत इति वाच्यम्; शाब्द- भ्रमशक्तत्वस्यातात्पर्यत्वात् शाब्दप्रमाशक्तरूपस्य तस्य वाक्यार्था बाधरूपप्रमात्वघटितत्वेन शाब्दप्रमापूर्वं प्रमातुमशक्यत्वात् । तथाच शाब्दप्रमातात्पर्यप्रमयोः परस्पराधीनत्वादुत्पत्तावन्योन्याश्रयादित्यर्थः । कर्मप्राशस्त्यादौ वेदान्ततात्पर्यभ्रमजन्यो यश्शाब्दबोधः तदन्याबाध्यं कर्मा' प्राशस्त्यादि, तत्र बाधवारणाय प्रमितिस्थले ज्ञानं निवेशितम् । तृतीयमिति | स्वग्रन्थे त्वयैव तथोक्तत्वादिति शेषः । तथाच , विश्वसत्यत्वानुमानभङ्गः 9 -