पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायी गुरुचन्द्रिकायां [प्रथमः अवच्छेदकवृत्त्यनित्यत्वेन च साक्षिप्रत्यक्षस्य दोषजन्यत्वोक्तेः । अतएव यदुक्तं तार्किकै:- “तदेव ह्याशङ्कयते; यस्मिन्नाशङ्कयमाने स्वक्रियाव्याघातादयो दोषा न भवन्ति । उक्तं च भट्टवार्तिके बौद्धं प्रति- - 374 ,

'इह जन्मनि केषांचित् न तावदुपपद्यते । योग्यवस्थागतानां तु न विद्यः किं भविष्यति ॥ ' इति । तथाच प्रामाण्यस्योत्पत्तौ ज्ञप्तौ च स्वतस्त्वादिह च उत्पत्ति- स्वतस्त्वापवादस्य दोषस्य ज्ञप्तिस्वतस्त्वापवादस्य बाधस्य च अदर्शनात् । निर्मूलशङ्कायाश्च स्वक्रिय | दिविरोधेनानुत्थानाभ्यु- पगमात् स्वस्थं प्रत्यक्षस्य प्रामाण्यम्" इति तदपि निरस्तम् ; म्वन्धस्य वा दोषजन्यत्व सम्भवात्तद वच्छिन्ननःनिगोऽपि दोषजन्यत्वेन बाध्यत्वमित्याशयेनाह – अवच्छेदकवृत्तीति । अवच्छेदकम्य उक्ता- विद्यावृत्तेरुक्तसत्त्वस्य वा सम्बन्धेत्यर्थः । अतएव यदुक्तमित्यादि उक्तं तार्किकैः तदेवेत्यादि उक्तं च वार्तिके इहेत्यादि । तथाच प्रत्यक्षस्य प्रामाण्यं तत्त्वावेदकत्वरूपं सुस्थमित्यादि यत्तदप्यत एव निरस्तमित्यर्थः । जन्मनि जन्मावधि मरणपर्यन्तकाले उपपद्यते प्रत्य- क्षादिबाध इति शेषः । न विद्म इति । प्रत्यक्षादेस्तात्त्विकप्रामा- ण्यप्रच्युतिपूर्वकं वेदान्ततात्त्विकप्रामाण्यस्थितिर्यद्यपि भविष्यतीति सम्भाव्यते, तथापि सर्वबाधो न भविष्यत्येवेति न बौद्धमतासद्धि- रिति भावः । शङ्काया एवत्येवकारेण स्वव्याघातिकायाः निर्मूलायाश्च शङ्काया अस्वीकारादित्यर्थः । श्रयमाणार्थपरतया निश्चितत्वेनागमे शङ्काव्युदासात् प्रत्यक्ष एव बाघशङ्काया लब्धावकाशत्वोक्त्या श्रुति- जन्यज्ञाने बाधशङ्काविरहेण न श्रवणादिप्रवृत्तिरूपस्वरूपक्रियाव्याघातः । प्रत्यक्षे च बाधकशङ्का श्रुतिमूलकत्वात् न निर्मूलेति भावः । ननु