सामग्री पर जाएँ

पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] भाविबाघोद्धारः 367 , इत्यादिलौकिकव्यवहारे च भाप्रत्यय इव स्वरूपार्थको न धर्मार्थकः । तत्स्वरूपप्राप्तिश्च धर्मस्वरूपस्य सम्बन्धो धर्मिस्वरूपस्य स्वस्मिन् कल्पितं तादात्म्यं तद्भेदाभावोपहितत्वं वा धर्म सम्बन्धमात्रस्य प्रकार- प्राप्तिरूपत्वे जटाभिस्तापस इतिवत् शब्दाश्रयत्वादिना गगनस्वरूप- मिदं सत्तया घट इत्यादिप्रयोगस्य सर्वसिद्धस्य अपलापापतेः । न हि गगनघटत्वादिशुद्धस्वरूपस्योक्तरीत्या शब्दजन्यधीविषय' त्वं स्मृतिविषयत्वं वा बोधयदुक्तवाक्यगत तृतीया पदम साधु । अथानुमापक- रूपोपलक्षण एव तृतयिा उक्तसूत्रेण विधीयत इति उक्तविषयत्व- बोधने तृतीया न साधु: । अतएव संक्षिप्तसारव्याकरणे 'हेतुविद्गो- श्रादेः' इति सूत्रेणानुमापक एव ज्ञापके तृतीयां विधाय धूमे- नामिमानित्युदाहृतमिति मन्यसे, तथापि गन्धसमनियतत्वादिना पृथिवी- स्वरूपमिदमित्यादौ तृतीयाप्राप्तयर्थमुक्तरूप एव सूत्रार्थो वाच्यः । न हि तत्र किश्चिद्धर्माविशिष्टस्य अनुमापकमुपलक्षणम् । अपितु तद्वदन्यावृत्तित्व रूपव्याप्तया शुद्धपृथिवीत्वस्य । तथा च द्वितीयाभाव- रूपत्वादिना ब्रह्मस्वरूपमिदमित्यपि प्रयोगस्संभवतीति द्वितीयाभाव- रूपत्वादिकमप्युपलक्षणमिति न किञ्चिदप्यनुपपन्नम् । किञ्चोक्तसूत्रे चिहशब्दितभेदकेपि तृतीया विवक्षिता । उदाहृतं च तत्र 'कमण्डलुना मैत्र: ' इति । मुग्धबोधव्याकरणेऽपि साधनहेतुविशेषणभेदककर्तृषु तृतीयां विधाय 'नेत्रैः पुण्येन भूषाभिर्नाम्ना दृष्टश्शिवो जनैः इत्युदाहृतम् । तथाच इत्थंभूतलक्षणशब्देन इतरभेदानुमापकरूपस्य भेदकस्यापि सङ्क्राह्यतया इतरभेदस्य चाभावादौ ब्रह्मणि च तत्स्व. रूपतया प्रकारं प्राप्त इति व्याख्याने प्रकारपदस्य धर्मार्थकत्वम- सङ्गतमित्युक्तभेदरूपस्वरूपानुमापकस्य द्वितीयाभावरूपत्वादेः इत्थंभूत- , लक्षणत्वमव्याहतम् । वस्तुतस्तु अनुमापक एव उपलक्षण शब्दः 1 धर्मि. 2 जन्यज्ञान विषय. 1