पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

डिछेद:]] प्रत्यक्षस्य लिङ्गाद्यबाध्यत्वे बाधकम् 347 कर्दमवस्त्रयोरिव तोयतेजसोर्मेदग्रह: ; तदा गौणतैव । यदि च शरीरात्मवत् भेदानध्यवसाय:, तदा अध्यास एव । तथाल युक्तिबाध्यमेवेति तदप्युदाहरणम् | यस्वहमिहैवेति प्रमाणमित्यु - क्तम्, तन्न; आत्मनः 'आकाशवत्सर्वगतश्च' इति सर्वगतत्वेन इहैवेति व्यवच्छेदस्याप्रामाणिकत्वात् । न च जीवोऽणुः, युग- पदेव पादशिरोवच्छेदेन सुखदुःखानुभवात् । न कोणुरेकदा व्यवहितदेशव्यावच्छिन्ओो भवति । न च युगपत्प्रतीतिर्भ्रमः, उत्सर्गसिद्धप्रामाण्यापरित्यागे बीजाभावात् । विस्तरेण चैतद वक्ष्यामः । ननु - नमोनैल्यप्रत्यक्षस्य नीरूपत्वग्राहकानुमानेन न बाधः, लिङ्गाभावात् । न च परममहत्त्वद्रव्यानारम्भकत्वादेः लिङ्गत्वम्, त्वन्मते असिद्धेः । निस्पर्शत्वं तु तमसि व्यभिचारि । पृथिव्यादित्रयेतरभूतत्वादि चाप्रयोजकम् । तथाच नीरूपत्व- 1 w इदं रजतमिति प्रत्यक्षाप्रतिबध्यत्वात्तदुत्तरोत्पत्तिसम्भवेन तया रजतत्वा- भावव्याप्यशुक्तित्वादिमति रजतत्वप्रकारकत्वहेतुना भ्रमत्वानुमितिरव्या- हता । एतेन – 'रजतादिप्रत्यक्षे विद्यमानेऽप्यरजतादिप्रत्यक्षं जायते स्वभावतो बलवत्त्वात् । अन्यथा काप्यप्रामाण्यधीर्न स्यात् ' इत्यपास्तम्; उक्तरीत्या भ्रमत्वधीसम्भवेन स्वभावतो बलवत्त्वकल्पने मानाभावात् प्रतिबध्यतावच्छेदके तत्तद्व्यक्तिभेदकूटनिवेशे गौरवात् । अन्यथा विरोधिनिश्चयस्य कापि प्रतिबन्धकता न स्यादति ध्येयम् । विस्तरेणेति । उत्क्रान्त्यादिकं तु अणुत्वा भावेप्यौपाधिकपारच्छेदा- दुपपद्यते । किश्चात्मनो द्रव्यत्वे मानाभावस्योक्तत्वात् परिमाणमात्रे मानाभावः । दृश्यमात्रसम्बन्धस्तु सत्तास्फुरणरूपत्वादुपपद्यत इत्यादि वक्ष्यत इत्यर्थः । निस्पर्शत्वमिति । अनुदूतस्पर्शो नास्तीति भावः । 1 संभावत् । तथा. 2 अणुत्वा. ,