पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः क्लृप्तविध्येकवाक्यतासम्भवे " तदयुक्तत्वात् । तस्माद्धूम एवेत्यादौ तु इशिर्गौणो दूरभूयस्त्वात् गुणात् तच्च भूयस्त्वेन दूरस्थैः दृश्यमान- त्वम् । दिवा हि दूरस्थैः भूयस्त्वेन धूम एव दृश्यते नार्चिः, नक्तं च तैस्तेना चिरेब दृश्यते न धूम इति । तथाच “सूर्यो ज्योतिर्ज्योति- रमिस्स्स्वाहेति प्रातर्जुहोति, अभिर्ज्योतिस्सूर्यस्वाहेति सायं जुहोति " इति मिश्रलिङ्गकमन्त्रविधेः शेषभूतं तस्माद्दिवेत्यादिकं तदुपपादकम् । तस्माद्धूमेत्यादिकं उभयोर्दैवतयोः मिलनादुभयदैवत्यहोमस्तुतेरुपपत्तिः । वस्तुतस्तु केवललिङ्गक मिश्रलिङ्गक मन्त्रविध्योर्मध्ये पठितमप्युक्तवाक्यद्वयं ‘‘अग्निर्ज्योतिर्ज्योतिरमिस्स्वाहेति सायं जुहोति, सूर्यो ज्योतिर्ज्योति- स्सूर्यस्स्वाहेति प्रातर्जुहोति" इति केवललिङ्गकमन्त्रविधे: शेष:; 'उभाभ्यां सायं हूयते उभाभ्यां प्रातः न देवताभ्यस्समदं दधाति' इत्यु- भयलिङ्गकमन्त्रविधेः अर्थवादान्तरस्याम्नानात् यस्माद्दिवाग्निगदित्यान्तर्गतिः तस्मादादित्यस्यैव ज्योतिष्ठात्तन्मात्रलिङ्गकमन्त्रः प्रशस्त इत्युपपत्तिः । एवमर्चिरेवामेर्नक्तमिति तत्रापि बोध्यमिति । प्रथम द्वितीये मन्त्राधिकरणे “ तदर्थशास्त्रात् वाक्यनियमात् बुद्धि शास्त्रात् अविद्यमानवचनात् अचे- तनार्थबन्धनात् अर्थविप्रतिषेधात् स्वाध्यायवदवचनात् अविज्ञेयादनित्य- संयोगात् मत्रानर्थक्यम्” इति सूत्रे मन्त्रा अनर्थकाः 'बर्हिर्देवसदनं दामि' इत्यादौ शास्त्रविहितार्थकत्वेन अविधेयकत्वात् 'अनिर्मूर्धा' इत्यादौः वाक्यक्रमनियमस्य स्वार्थबोघे अनुपयोगात् अदृष्टार्थत्वस्य सिद्धा न्तेऽनङ्गीकारात् ' अमीन् विहर' इत्यादिप्रैषम बुद्धार्थत्वात् 'चत्वारि शृङ्गा त्रयोऽस्य पादाः' इत्यादौ चतुश्शृङ्गत्वादियुक्तकर्मणोऽविद्य- मानस्य वचनत्वात् ‘‘ ओषधे त्रायस्वैनम्' इत्यादावचेतनार्थसम्बोधनात् ‘. अदितिद्यैरदितिरन्तरिक्षं', इत्यादौ अदितिशब्दरूपदेवताया धुलोका- द्यभेदरूपार्थसम्भवात् मन्त्रमात्रेऽध्ययनाभासस्येवार्थज्ञानाभ्यासस्यावचना- 1 3 306 . 1 प्रसक्त 2 बुद्ध. 8 दृष्टार्थत्वस्य सिद्धान्तेऽङ्गीकारात्. 4 वचनात्.