पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः द्भातृस्पर्शविषयमध्यमोत्तरभागान्यभागविषयकत्वेनाप्युपपत्तेः न स्पर्श- श्रुतिविरोधः । एवं शिष्टपारगृहीतस्मृतेर्लोभादिम्लकत्वे मन्वादिस्मृते- रपि तदापत्तिः । 'अपिवा कारणाग्रहणे' इत्यादि वक्ष्यमाणाधि- करणे तु शिष्टपरिग्रह एव मुख्यहेतुः । दृष्टमूलासस्भवस्त्व- न्वाचयमात्रम् | तस्मात् प्रत्यक्ष श्रुतिविरुद्ध स्मृतिमूलश्रुतिर्यद्यपि पर- प्रत्यक्षा सम्भवति । परप्रत्यक्षं च आत्मप्रत्यक्षतुल्य मेवोतं सा स्मृतिः प्रमाणमेव । तथापि सा श्रुतिः यावन्न स्वप्रत्यक्षा तावत्प्रत्यक्ष श्रुत्यर्थ एवानुष्ठेयो न तु तादृशस्मृत्यर्थः ; अर्थवादादिना विधिमुन्नीयापि स्मृतिं प्रमाणयन्ति यथा स कृताकत इत्यादिः सवनीयपुरो- डाशविकल्पबोधकस्मृतिः । सा हि सवनीयपशौ देवतासंस्कारार्थ- प्राकृतपशुपुरोडाशस्य सोमं प्रत्यारादुपकारकसवनीयपुरोडाशस्य च छिद्रापिधानार्थत्वमर्थवादाभ्यां भ्रान्त्या रचिता । अत एव “सवनीये छिद्रापिघानार्थत्वात् पशुपुरोडाशो न स्यात् अन्येषामेवमर्थत्वात् " इति ताशद्वितीयस्थाधिकरणे छिद्रापिधानरूपैकार्थत्वे विकल्पमाशङ्कय निराकृतम् । “ सुषिरो ह वा एतर्हि पशुर्यर्हि वपामुत्खिदातीति यद्री- हिमयः पुरोडाशो भवति अपिहित्या अछिद्रतायै, अनुसवनं सवनीया पुरोडाशा निरूप्यन्ते अपिहित्या अछिद्रतायै" इत्यर्थवादयोः स्तुति मात्रपरत्वेन उक्तैकार्थत्वाप्रापकत्वात् । तथाच तद्वदेव यद्यर्थवादाचुन्नीतः विधिमूला स्मृतिः, तथा प्रत्यक्ष श्रुतिसन्नघाययोः विरोधे अर्थवादन्याया- भासादिमूलकस्मृतेरप्रामाण्यात् सा न प्रमाणमिति शङ्कासम्भवात् । एवंच- 'बिरोघेत्वनपेक्षं स्यादसति धनुमानम् इति सूत्रे अनपेक्षं उक्त- शङ्कानिरासकानपेक्षं प्रत्यक्ष श्रुतिचोदितमनुष्ठेयं स्यात् । असति उक्त- शङ्काबीजे हि अनुमानं प्रत्यक्ष श्रुत्यविरुद्धश्रुत्यनुमापकस्मृतिबोधितमनुष्ठेय- मित्यर्थः । एवमाशङ्कयमाने प्रत्यक्ष श्रुत्यविरुद्धस्मृतावपि तथा शङ्कयेत । तस्माच्छाक्यादीनां त्रयीबायानामपि त्रर्याप्रोक्ताहिंसादिधर्मवक्तृत्वेन क्षत्रि- 298 ,