पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः गगनादिप्रकारकधीः पक्षे न जायते । तत्रावृत्तत्वधीः या तस्याः तत्प्रकार कधीविरोधित्वस्य क्लृप्तत्वात् । तथापि व्याप्यगगनादिविशेष्यक- पक्षप्रकारकज्ञानादनुमित्युपपत्तिः । न च तद्वारणाय व्याप्यप्रकारकधीरे- वानुमितिहेतुर्वाच्येति वाच्यम्; व्याप्यापेक्षया पक्षस्य लघुत्वेन पक्ष- प्रकारकनिश्चयत्वेनैव हेतुत्वात् । अन्यथा गुरुभूतव्याप्याभावाप्रकार- त्वादिगर्भनिश्चयत्वेन हेतुत्वे गौरवात्, अवृत्तित्वज्ञानाभावकाले व्याप्य प्रकारकज्ञानसामग्रया असत्त्वे गगनादिव्याप्यविशेष्यकज्ञानादनुमितेरप- लापापत्तेश्च । न च व्याप्यगगनादिविशेष्यकज्ञानादनुमितिरिष्टेति वाच्यम्; अवृत्तित्वेन ज्ञायमानहेतुकानुमितिस्वीकारे सर्वत्रैव गगनादिहेतुकानुमि- त्यापत्तेः । साध्याभाववद्वात्तित्वरूपव्याभिचारज्ञानासम्भवात् | अपिच पक्ष- धर्मतापि गगनादौ कुतो न ज्ञायते ? अवृत्तित्वाधयः प्रतिबन्धकत्वा- दिति चेन्न; तादृशधीसत्त्वेपि गगनयो घट इत्यादिधीदर्शनात् तस्या- सम्भवात्; अन्यथा वृत्तिमत्त्वसामान्याभावधीः तत्प्रकारकज्ञान इव स्वामित्वादिसम्बन्धो धनादिवृत्त्यनवच्छेदक इति घीरप्याचित्येन तत्सम्बन्धेन धनादिप्रकारकज्ञाने प्रतिबन्धिाका स्यात् । तथाच तत्काले धनादि लिङ्गकानुमितिलोपापत्तिः । किंचोक्तव्याप्तचादरे गग- नादौ जगद्व्याप्यत्वं व्यवहयेत । इष्टापत्तौ च अनुभवविरोधः । अत- एव गगनादौ व्याप्थत्वमुक्ता वृत्तिमत्त्वं हि विशेषणमिति दीधित्यादा- वुक्तम् । ध्वनिधर्मेत्यादि युक्तं; दीर्घत्वादेज्ञानस्य कारणत्वेऽपि यथा कारणीभूतधीविषयदीर्घत्वादिविषय 'सत्ताकं शाब्दबोधस्य विषयप्रामा- ण्यम्, तथा व्याप्तयादिविषयसत्ताक' मनुमेयादीत्यत्र तात्पर्ये बाघ- काभावात् । मीमांसकमते दृष्टान्ते ताकिकोक्तिस्तु शोभते । वेदान्त- वाक्ये ससर्गो नार्थ इति तु वक्ष्यते । मिथ्यात्वानुमितिप्रामाण्यस्य व्याव- हारिकत्वात् मिथ्यात्वमिष्टमेव । जरद्गवादिवाक्यस्य मिथ्यात्वप्रामाण्यं 1 विषम. 2 मसत्ताक, 294