पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पीरच्छेदः] प्रत्यक्षबलखण्डनमूः प्रामाण्यस्यान्याय्यत्वात् । तत्राद्वैतश्रुतेः व्यावहारिकप्रामाण्य- सम्भवे द्वैतग्राहिप्रत्यक्षादेः तात्त्विकं प्रामाण्यं भवेत् । तदसम्भवे तु बलादेवाद्वैत श्रुतेः तात्त्विकं प्रामाण्यामति प्रत्यक्षादेर्व्याव- हारिकं प्रामाण्यं पर्यवस्थतीति कृतबुद्धयो विदांकुर्वन्तु । ननु पञ्चदशरात्रे प्रथमे अहन्यग्निष्टुन्नामके नामातिदेशेन एकाहाग्निष्ठु- द्धर्मभूता सुब्रह्मण्या आग्नेयी प्राप्ता । तस्या अल्पविषयायाश्चतुर्दशा- नान्तरविहिताभिमन्त्रणानुवादेन चतुर्होत्रेत्यादिना मन्त्रविधानात् सक्कदेव सर्वहविरभिमर्शनसम्भवात् । अविरुद्धधर्मविषये तु सर्वेषां तन्त्रता आवृत्तिः, योग्यधर्मविषये त्वावृत्तिः । इदमप्युदाहरणं उपांशुयाज- स्यामावास्यायामभावपक्षे । तत्र तद्भावपक्षे द्विविधमन्त्राणामप्यविरोधात् नेदमुदाहरणमित्यन्यंन्मृग्यमिति सिद्धान्तितं ' विरुद्धधर्मसमवाये भूयसां स्यात्सधर्मत्वम्' इति सूत्रेण । तथाच तत्र यथाभाष्यरीत्या भूयोऽ नुग्रहानुरोधेन उक्तमग्ररूपमुख्यधर्माशे अतिदेशस्य बाघ:, एवं प्रत्यक्षा- दिभूयोनुग्रहानुरोधेन अद्वैत श्रुत्ते: मुख्यार्थांशे बाघ इति शङ्कते - ननु पञ्चदशरात्र इति । पञ्चदशयागार्थं क्रियमाण आतिथ्यान्तो- पसत्कालीन सुब्रह्मण्यापाठे इत्यर्थः । अत्र प्राप्ता या आमेयी तस्यास्तत्र प्राप्तया ऐन्द्रया यथा बाध इति योजना । आमेयीप्राप्तौ मानमाह — प्रथम इत्यादि । प्रथमाहविषयकेन नामातिदेशेन प्राप्तेत्यर्थः । तत्रापि हेतुः – एकहाग्निष्टुद्धर्मभूतेति । ऐन्द्रीप्रापक- मानमाह – चतुर्दशाहस्स्विति । नामातिदेशेनेत्यनुषाक्तशेषः । तथाच चतुर्दशाहस्सु प्रथमत्रघहाविषयकेन नामातिदेशेन अव- शिष्टैकादशविषयकेन चोदकेन च प्राप्तया ऐन्द्रयेत्यर्थः । यथाश्रुतं त्वसङ्गतं ' चोदनालिङ्गकातिदेशरूपेण चोदकेनावशिष्टेष्वे कादशाहस्वेवः' - - 1 त्वसंशयितं. 279 2 दशाहस्सु.