सामग्री पर जाएँ

पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रत्यक्षबल स्खण्ड नम् 277 ● मानाभावात्, 'देहेन्द्रियबुद्धिनास्ति, न लिप्यते लोकदुःखेने' त्यादौ देहदुःखादेः प्रत्यक्षाविषयत्वस्य कथमप्यसम्भवाच्च, पृथिवीत्वपटत्वादि- विशेषविशिष्टमिथ्यात्वानुमानस्योक्तस्य निरवकाशत्वाञ्च । अपिच नेह् नानेत्यादौ प्रत्यक्षा विषयद्वितीयादिसामान्याभावो लक्षणयैव बोद्धव्यः, मुख्यवृत्त्या द्वितीयादिसामान्याभावस्यैव बोधात् । मुख्यवृस्युपमर्दश्च न सावकाशतया सङ्कोचात्, किन्तु वलवत्प्रमाणबाध्यत्वात् । बलवत्त्वं च श्रुतेरेव निर्णीत तात्पर्यकत्वात् । यदिचामुख्यवृत्त्या विषयान्तरे श्रुतेः सावकाशत्वं तदा प्रत्यक्षस्यापि किञ्चित्कालबाध्यत्वरूपमिथ्यात्वाविरोधि- सत्वविषयकत्वेन तत्किं न स्यादित्युक्तम् । तेन ' उपांशु चरन्ति ' इत्यादौ तु तत्पदस्य दीक्षणीयात्वादिरूपेणेव तदन्यरूपेणापि बोधस्य मुख्यवृत्त्यैव सम्भवात् सावकाशत्वन्यायसम्भवः । तस्मादद्वैतश्रुतेः सावकाशत्वेन सङ्कोचोक्तिरुन्मत्तप्रलापः || द्वादशे द्वितीये स्थितं पञ्चदशरात्रे पञ्चदशसुत्या के सत्रविशेषे प्रथ- माहोऽभिष्टुन्नामकं नाम्नामेयामिष्टुद्विकारत्वात्तत्रामेयी सुब्रह्मण्या तदुत्तरत्र्य- हस्य ज्योतिर्गौरायुरिति नामकस्य नाम्नैकाहकाण्डोक्तज्योतिरादियागविका रत्वात् तदीया ऐन्द्री सुब्रह्मण्या, अन्येष्वेकादशसु द्वादशाहविकारत्वा- तदीया पैन्द्री सुब्रह्मण्या, सुब्रह्मण्या इन्द्र आयाहीत्यदिनिगदविशेषः । तत्र सुत्याकालीन सुब्रह्मण्यापाठे तत्तद्दिनभेदेन अनुष्ठेयत्वान्न विचारः । आतिथ्यान्ते उपसत्काले च सुब्रह्मण्यापाठे सर्वसत्यार्थे तत्रत्वस्यैकादशे स्थापितत्वाद्विरोधप्रसक्तौ अभिष्टुन्ना मकस्य मुख्यत्वात्तदीयामेयी एव पठनीयेति प्राप्ते भूयोऽनुग्रहाय ऐन्द्रयैव कार्येति भाष्यम् । वार्तिके तु सुब्रह्मण्याया देवता प्रकाशनार्थत्वादिन्द्रप्रकाशनेनाग्निप्रकाशन रूपोपकारा- सिद्धेरन्यत उपकारलाभे अननुष्ठानरूपस्य प्रसङ्गस्य असम्भवाद्भेदेनैव सुब्रह्मण्यापाठ इति नेदमुदाहरणम् । अतएवैकादशे तन्त्रतोक्तिरपि 1 प्रत्यक्षादि. 2 बाधस्य.