पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथम: ननु प्रत्यक्षस्यासञ्जातविरोधित्वादुपक्रमन्यायेनैव प्राब- ल्यम्; उक्तं हि — 'असञ्जात विरोधित्वादर्थवादो यथाश्रुतः । आस्थेयस्ताविरुद्स्य विध्युदेशस्य लक्षणा' || इति चेन्न; यत एकवाक्यस्थपरस्परसापेक्षपदत्वेन उभयोस्साम्ये सति । उपक्रमस्थवेदपदानुरोधेन उपसंहारस्थर्गादिपदानां मन्त्र- मात्रवाचिनां कृत्स्नवेदपरत्वे निर्णीतेऽपि न प्रकृते तनयायस्स- म्भवति, उभयोस्साम्याभावात् गृहीतप्रमाणभावश्रुत्यपे- क्षया भ्रमविलक्षणत्वेनानिश्चितस्य प्रत्यक्षस्य न्यूनबलत्वात् । नापि वेदाध्यनविध्यर्थसिद्धयापत्तेः । तस्माद्वेदादिपदानां ऋग्वेदादि- लक्षणाग्राहकत्वात् ऋग्वेदादिना यत्क्रियते विधयते तत्कर्म उच्चैः कुर्यादित्यर्थ पर्यवसानात् योग्यत्वान् मन्त्रमात्रस्य द्वारत्वलाभात् ऋग्वेदादि - विहितकर्मादिमात्रस्योच्चेष्टादिसिद्धिारति वाक्यविनियोगप्रस्तावे तृतीये तृतीयाद्याधिकरणे 'श्रुतेर्जाताधिकारस्स्यात्' इत्यत्र चिन्तितम् । ऋगादिश्रुतेः मन्त्रजातेरधिकार उद्देश्यता स्यादिति पूर्वपक्षसूत्रम् । तथाच न्यायेन प्रथमोत्पन्नं प्रत्यक्षं श्रुत्याद्यपेक्षया प्रवलमिति शङ्कते---- ननु प्रत्यक्षस्येति । एकवाक्यस्थेत्यनेनापच्छेदन्याया (न) वतारः; परस्परसापेक्षेत्यनेन विधेः प्रधानतयाऽपेक्षणीयत्ववदर्थवादस्याप्युक्तरीत्या विधिनिर्वाहकार्थसमर्पकत्वेन अपेक्षणीयत्वमित्यङ्गगुणविरोधन्यायानवतार- स्तूचितः । ननु वेदपदानामेव मन्त्रमात्रपरत्वं किं न स्यात् ? तत्राह —उपक्रमस्थेति । प्रथमप्रवृत्तेत्यर्थः । तथाच विधेः तत्प्रवृत्ति- कालपश्चात्प्रवृत्तत्वान्न लक्षणारूपतदुपमर्दक्षमतेति भावः – न्यूनवल- त्वादिति । तथाच परस्परसापेक्षत्वेन एकवाक्यगतत्वेन च पूर्वस्य परेण बाधासम्भवेऽप्यतथाभूतत्वेन प्रत्यक्षस्य पूर्वस्यापि प्रब- लश्रुत्या बाध्यत्वमेव सम्भवतीति नोक्तन्यायावतार इति भावः- B 264 , -