पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

262 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः 2 विचक्षणेनि चतुरक्षरो मन्त्रस्तद्युक्तं वाक्यं वदेत् – देवदत्त विचक्षण गामानयेत्यादि वक्तव्यमित्यर्थः । तदाह आपस्तम्बश्च “लसितं विचक्षण इति नामधेयन्तेषु ' निदधाति च लसितेति ब्राह्मणस्य, विचक्षणेति राजन्यवैश्ययोः ” इति । उक्तमन्त्रस्य सत्योक्तिस्थानीयत्वं प्रतिपादयति- चक्षुर्वै इतिचक्षुरिन्द्रियं नेत्रं, तद्विचक्षणं विशेषेण चष्टे पश्यत्यनेनेति व्युत्पत्तेरित्याह् -- एतेनेति । एतद्धेत्यादि । प्रत्यक्षानुमानादिप्रमाणानां मध्ये चक्षुरेव मनुष्याणां सत्यं निहितं, तथाच यथावस्तुज्ञानसाधन- त्वेनाभिमत, चक्षुः पर्याय विचक्षणशब्दप्रयोगः सत्योक्तिस्थानीय इत्यभि- प्रायः । चक्षुषो यथावस्तुज्ञानसाधनत्वमन्वयव्यतिरेकाभ्यामाह-तस्मादा- चक्षाणेति । उदाहरणान्तरमाह --- यधु वेति | निपातसमुदायः । च नेति शब्द: अपिशब्दसमानार्थ इति । तथाच वस्तुगत्या चक्षुषि यथावस्तु- ज्ञानसाधनत्वस्य असत्त्वेऽपि मनुष्याणां तथा अभिमतत्वात् सत्यत्वं चक्षुप उक्तम् । अतो यथावस्तुज्ञानसाधनत्वमेव तस्य भाष्याभि- प्रेतम् । अतएव तथा अभिमानस्यैवाग्रे उदाहरणम् । अन्यथा यथा वस्तुज्ञानसाधनत्वमात्र दृढत्वे उदाहरणतात्पर्ये चक्षुषा यथावस्तु- ज्ञानं, तद्विना नेत्येवोक्तं स्यात् । न तु अद्राक् अदर्श श्रद्दधातीति । यस्माच्चक्षुषः तत्त्वदर्शनहेतुत्वं मनुष्याणामभिप्रेतं तस्मादाचक्षाणमाहु- रद्रागितीति भाष्ये मनुष्याणामभिप्रेतमिति नोक्तं स्यात् । मनुष्याणा- मिति श्रुतावपि नस्यात् । मानान्तरापेक्षया बलवत्त्वं तु त्वया स्वमत्यनुसारेणाप्रामाणिकं सत्यशब्दार्थतयोक्तं सुदूरपराहतम् । तथा विचक्षणवतीमित्यस्य चक्षुस्संवादिनीमित्यर्थोप्यप्रामाणिक इत्युक्तम् । चक्षुर्वेसत्यम् अद्रागित्याह अदर्शमिति तत्सत्यम्' इति तैत्तिरीय श्रुतिर - प्युक्तसमानार्थकत्वादविरुद्धा। यत्तु- "वाजसनेयिनो द्वौ विवदमानावे- चक्षुषः ' इत्येतत्कचिन्न दृश्यते. 6 3 1 नामधेयं तेषु. 20 तथाच . नियमित.