पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारच्छेदः] प्रत्यक्षबाधोद्धारः 237 तत्रेव घटत्वावच्छिन्नत्वप्रतियोगित्वसंयोगानुयोगित्वेषु पर्याप्ताया एक- विषयतायाः स्वीकाराच्च । स्वानुयोगिकसयोगप्रतियोगितासम्बन्धेन घटवानिति ज्ञानस्य न संयोगेन घटप्रकारकत्वं प्रतियोगित्वानु- योगित्वयोः अधिकयोर्भानेन उक्तपर्याप्तघभावात्, रक्तदण्डवादति ज्ञानीयस्य व्यासज्यवृत्तेः प्रकारत्वस्य तदवच्छेदकत्वस्य वा दण्ड- रक्तवदिति ज्ञान इव संयोगेन घटवदिति ज्ञानीयस्य विलक्षणस्य प्रतियोगित्वादिविषयत्वस्य संयोगेन घटप्रकारतानियामकस्यै स्वानु- योगीत्याद्याकारकज्ञाने अभावाच्च । शुद्धघटत्वादिप्रकारकत्वं तु शुद्ध- घटत्वादौ प्रतियोगित्वे च वर्तमानं संसर्गताकत्वं घटवदिति ज्ञाने, घटत्वावच्छिन्नं द्रव्यवदिति ज्ञाने द्रव्यत्वावच्छिन्नं प्रतियोगित्वं संसर्ग इति तयोः वैलक्षण्यमेव । इत्थंच प्रतियोगित्वानुयोगित्वयोः घटादि- रूपत्वेऽपि न क्षतिः । वस्तुतस्तु तयोः तदतिरिक्तत्वं त्वयाऽपि चाच्यम्; अन्यथा संयोगसम्बन्धेन तद्घटस्तद्धटीय इत्यादिज्ञान- मपि प्रमा स्यात्, तद्धटप्रतियोगिकसंयोगानुयोगित्वस्य भूतलस्वरूपत्ववत् तदा घटस्वरूपत्वस्याप्यवश्यवाच्यत्वात् भूतलं तद्धटीयं तद्धटो भू- तलीय इति बुद्धयोरेकसंयोगेन प्रमात्वात् । अतिरिक्तयो'स्तयोस्स्वी- कारे तु संयोगीया या तद्धटनिष्ठप्रतियोगिता तन्निरूपितानुयोगित्ववति तद्धटप्रकारकज्ञानस्य तद्धटप्रमात्वरूपत्वात् तद्घटस्य भूतलनिष्ठ- तत्प्रतियोगितानिरूपितानुयोगित्वेऽपि स्वनिष्ठतत्प्रतियोगितानिरूपितानु- योगित्वाभावादुक्तबुद्धेः प्रमात्वासम्भवः । न च तयोरतिरिक्तत्वेऽपि तद्धटनिष्ठेन तादात्म्यसम्बन्धे प्रतियोगित्वेन निरूपितानुयोगित्वं तद्धटेऽपीति अयं तद्धट इति बुद्धिरिवायं संयोगेन तद्धटीय इति बुद्धिरपि प्रमा स्यादिति वाच्यम्; संयोगप्रतियोगितायास्तादात्म्य- प्रतियोगितातिरिक्तत्वात् । अथ संयोगवत् तादात्म्यस्य संयोगरूपत्वा - 1 नियामकन्वस्य. 2 तद्धट. 3 प्रमात्वातिरिक्तयोः.