पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

230 अद्वैतव्यायां गुरुचन्द्रिकायां [प्रथम: मानमस्ति; धूमत्वेन पुरोवर्तिनं धूमं साक्षात्करोमि न व्यव हितमित्यनुभावाच्च । अन्यथा जगतीगतसकलधूमव्यक्तीरहं साक्षात्करोमात्यनुव्यवसीयेत । न चैवमनुभवमात्रशरणैरभ्युपे- यते । किञ्च सामान्यप्रत्यासत्यङ्गकारे यत् प्रमेयं तदभिधेयं, यत् प्रमेयवत् तदभिधेयवदित्यादिव्याप्तिपरिच्छेदे सार्वज्ञथा- पत्तिः । न चेष्टैव सा; परज्ञानविषयो घटोन वेत्यादिसं- शयानुपपत्तेः । न च घटत्वप्रकारकघटविषयकनिचयो घटसं- शयविरोधी, प्रमेयमिति निश्चयस्तु घटविषयोऽपि न घटत्व- प्रकारक इति वाच्यम्; भासमान वैशिष्टयप्रतियोगिन एव प्रका- रत्वात्, घटत्वस्यापि प्रमेयमिति ज्ञाने भासमानवैशिष्ट्यप्र- तियोगित्वात् घटत्वप्रकारकनिश्चयस्य घटत्वप्रकारकनिश्चयस्य घटत्वज्ञानजन्यत्व- प्रत्यक्षं तत्राह - धूमत्वेन पुरोवर्तिनमित्यादि । साक्षात्करो- , - मीति । न च – सन्निकृष्टलौकिकविषयकप्रत्यक्षस्योक्तानुव्यवसायविषय- त्वात् नोक्तापत्तिः, व्यवहितादिषु लौकिक विषयत्वाभावादिति वाच्यम्; प्रत्यक्षयालौकिकविषयतायामुक्तरीत्या मानाभावे तात्पर्यातक विकाव्यादि- स्थले स्मरणानुमानशाब्दबोधरूपवाक्यार्थधीसम्भवात् बाधितेप्यर्थे आहा- र्यालौकिकमानसादिप्रत्यक्षास्वीकारेपि शाब्दीसम्भवात् कलहादौ तथा दृष्टत्वात्, वाक्यार्थज्ञानं विनापि शुकवद्वाक्यरचनासम्भवाच्च प्रमेय- त्वसामान्यलक्षणायाः सर्वविषयज्ञानजनकत्वम् । प्रमेयत्वसामान्यलक्षणा तु प्रमेयत्व सामान्यलक्षणाजन्या स्वयमपि सर्वविषय केत्यभिप्रायेणाह- यत्प्रमेयवदिति । इष्टैवेति । अलौकिकप्रत्यक्षत्वादुक्तसार्वश्यमश्वरीयधी- विलक्षणमिति भावः । उक्तज्ञानाभावकाले संशये बाघकाभावादाह --- परज्ञानेति । उक्तज्ञानेत्यर्थः । यस्योक्तज्ञानं जातं तस्यैवोक्तज्ञान- विषयतांविशिष्टो घटो न वेत्यादिसंशयामुपपत्तेरित्यर्थः । प्रमेयमितीति । न प्रमेयन्वं.