पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्याया गुरुचन्द्रिकायां [ प्रथमः पक्षविशेषणकानुमित्यभ्युपगमे तु नैव काप्यनुपपत्तिः, अनुमितेः पक्षविशेष्यत्वनियमे मानाभावात् । किश्च धूमत्वादिसामान्यं न स्वरूपतः प्रत्यासत्तिः । धूलीपटले धूमभ्रमानन्तरं धूम- त्वेन सकलधूमनिष्ठवाह्नव्याप्तिग्रहानुदयप्रसङ्गात् । न चेष्टा- पत्तिः; तदुत्तरकालमनुमित्यनुदयापत्तेः । तथाच धूमत्व- ज्ञानं प्रत्यासत्तिरिति वाच्यम् । तच्च धूमेन्द्रिय सन्निकर्षद- न त्वन्वयव्याप्तिज्ञानघटिताया इति ध्येयम् । नैव कापीति । विशिष्ट- बुद्धिमात्रे विशेषणविषयकत्वेन संस्कारादिसाधारणेन हेतुत्वेऽपि पक्ष- वृत्तिसाध्यघटितव्याप्तिविशिष्टविशेष्यकज्ञानात् पक्षधर्मताबलात् पक्षीय- साध्यविशेष्यकानुमितिसम्भवः सामान्य लक्षणानैरपेक्ष्येणेति भावः । यदि पक्षीयधूमस्सन्निकृष्टः, तदा तत्र पूर्वोत्तरीत्या स्मृतव्याप्तेर्वैशिष्ट्यधी- सम्भवान्न सामान्यलक्षणापेक्षा । यदि च व्याप्तिधीसमये पक्षे विद्यमानो धूमोऽसन्निकृष्टः; तदापि स्वरूपतो धूमत्बप्रत्यासत्तित्वेऽपि तदानीं तत्स- त्त्वात् व्याप्तिधीसम्भवः । यदि तु न तथा, किन्तु पक्षीयधूलीपटले धूमत्व- अमोत्तरं पक्षीयातीतानागतधूमेषु व्याप्तिं गृहीत्वा अनुमितं, तदा अतीता- दिधूमेषु व्याप्तिधीपूर्वक्षणावच्छेदन धूमत्वरूपप्रत्यासत्तेः कारणस्याभावात् न व्याप्तिषीरूपकार्यस्य विशेष्यतासम्बन्धेन तेषूत्पत्तिसम्भव इत्याह- धूलीत्यादि । उपलक्षण मिदम् । पक्षावृत्तिधूमे व्याप्तिग्रहानन्तरं यदि पक्षीयातीतादिधूमेषु व्याप्तिं गृहीत्वा अनुमितिः, तत्राप्यनुपपत्तिर्बोध्या । तत्राततिादिषु पक्षीयधूमेषु व्याप्तिप्रत्यक्षपूर्वक्षण इति शेषः । एतेन “धूलिपटले धूमत्वभ्रमात् धूममात्रे व्याप्तिप्रत्यक्षे बाधकामावः तस्य धूलीपटलविशेष्यकत्वं तु दोषप्रयोज्यं, न तु धूमत्वसामान्यप्रयोज्यम्; धूमनिष्ठविशेष्यतासम्बन्धेनैव धूमत्वप्रकारकप्रत्यक्षस्य तत्कार्यत्वात् " इति परास्तम् । धूमत्वज्ञानमिति | विषयतासम्बन्धेन कारणत्वात् तेन 1 विषयतासंम्बन्धेन – विषयत्वरूप विषयताघटिलसम्वन्धेन कारणत्वात्. 497 228 "