पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

214 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः चक्षुरादि- न चाशेषनिषेधानां प्रतियोगित्वमतीन्द्रियसाधारणं “योग्यप्रतियोगिक इत्यादेः योग्यप्रतियोगिकान्यः संसर्गा भावः न योग्य इति नार्थः, उक्तप्रतियोगित्वाभावस्य योग्यायोग्यप्रतियोगिकत्वेन योग्यतापत्तेः । नाप्ययोग्यप्रतियोगिकः संसर्गाभावो योग्यो नेत्यर्थः । महावायौ योग्यायोग्योद्भुतरूपसामान्याभावप्रत्यक्षतायाः दीधित्यादावुक्त- त्वात् । नाप्ययोग्यधर्मावच्छिन्न प्रतियोगिताकः संसर्गाभावः न योग्य इत्यर्थः । तावता उक्तप्रतियोगितात्वा वच्छिन्न प्रतियोगिताकात्यन्ताभाव- प्रत्यक्षतावारणेऽपि स्तम्भे पिशाचादेरिव योग्ये घटादौ तादृशप्रतियोगित्वा- श्रयस्य भेदप्रत्यक्षतासम्भवेन तदवारणे मिथ्यात्वानुमितिप्रतिबन्धक- बाधसामान्यावारणात् इत्यादि परास्तम्; उक्त प्रतियोगित्वस्य अत्यन्ताभावप्रत्यक्ष इव तद्वद्भेदप्रत्यक्षेऽपि निरुक्तयोग्यतायाः प्रति- योग्यनुपलम्भे अपेक्षणात्, तदभावस्य प्रकृतग्रन्थार्थत्वात् । अतएव तदभावो नाध्यक्ष इति दीधित्यादिवाक्यस्य तद्वद्भेदस्याप्यनध्यक्षतायां तात्पर्यम्; अन्यथा तस्य लौकिकप्रत्यक्षसम्भवे उत्तरग्रन्थेनोपनयेन तदभावधी कथनवैयर्थ्यापत्तेः । अतएव च मूर्तसामान्यतद्वतोरिव (उपाधिसामान्यतद्वतोः) अत्यन्तान्योन्याभावौ न योग्याविति व्याप्तिग्रहो- पायदीधित्यादावुक्तम् । मूर्तत्वावच्छिन्नप्रतियोगिताकात्यन्ताभावस्येव मूर्तबद्भदस्यापि निरुक्तयोग्यताविशिष्टस्य प्रतियोग्यनुपलम्भस्य असत्त्वा- देव अप्रत्यक्षतायाः सम्भवात् अतीन्द्रियसाधारणमिति । अती- न्द्रियासन्निकृष्टाभावप्रतियोगितात्ववदित्यर्थः । चक्षुरादियोग्यमिति । येनोपलब्धिरापादयितुं शक्यते तादृशमित्यर्थः । अयोग्यधर्मानर्वाच्छिन्न- योग्यमात्रवृत्तिप्रतियोगिताकाभाव एव योग्यः । वाय्वादौ रूपाद्यभावस्तु न प्रत्यक्षः, किन्तु अनुमेयमिति मते तु यथाश्रुतमेव सम्यक् । यत्तु - सर्वदेशकालवृत्तिनिषेधप्रतियोगित्वस्य चक्षुराद्ययोग्यत्वेपि तदभावो योगिकान्यसंसर्गा. 2 तदवधारणे. 3 प्रत्यय.