पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथम चान्योन्याश्रयात्, मिथ्याभूतस्य शुक्तिरजतसंसर्गस्य व्यवसाय- द्वारा साक्षाच निषेध्यत्वादिना प्रमाविषयत्वाभ्युपगमाञ्च । नापि द्वितीयः; योग्यताया अनिरूपणात् । न तृतीयः; असि- द्धेः, सर्वस्यैव क्षणिकत्वादिना भ्रमविषयत्वाभ्युपगमात् । अत एव नासत्वाप्रकारक श्रमाविषयत्वमपि, अन्योन्याश्रयाच्च । नापि सत्त्वप्रकारकप्रमाविषयत्त्वम्, आत्माश्रयात् । नापि असच्चप्रका- रकभ्रमाविषयत्वं सत्त्वम्, अन्योन्याश्रयात् । नापि प्रतिपन्नोपाधौ त्रैकालिकसत्व निषेधविरहः, आत्माश्रयात् । नापि सत्ता जातिः अर्थक्रियाकारित्वं असलक्ष्यण्यं वा, एतेषां मिथ्यात्वाविरोधि- त्वेन तत्प्रत्यक्षेण मिथ्यात्वानुमाने बाधाभावात् । नापि वेदा- न्त्यभिमतमिथ्यात्वाभावस्सत्त्वम्, तुच्छे अतिव्याप्तेः । नाप्यसद्धि- लक्षणत्वे सत्यनारोपितत्वम् ; अनारोपितत्वं हि आरोपाविषय- त्वम्, तच्चासम्भवि; सर्वस्यापि क्षणिकत्वादिना आरोपविषय- त्वात् । नाप्यस्तित्वप्रकारकप्रमां प्रति कदाचित्साक्षाद्विषयत्वं, कालसम्बन्धित्वं वा सत्त्वम् ; अस्तित्वं च वर्तमानत्वम्, न तु 206 व्यवसायद्वारेति । रजतमिदं जानामीत्यनुव्यवसायरूपप्रमायाः व्यवसायांशे नेदं रजतमिति प्रमाया निषेधांशे विशेषणत्वं रजतादे- रिति भावः । आत्माश्रयादिति । यद्यपि पूर्वोक्तान्योन्याश्रय - स्थलेऽपि सत्त्वघटितत्वेनात्माश्रयत्वं, सत्त्व प्रकारकप्रमानिरूपणे तद्विषयत्व- रूपसत्त्वनिरूपणं, तन्निरूपणे च तादृशप्रमानिरूपणमिति प्रकृतेऽ- प्यन्योन्याश्रयत्वं ; तथापि स्पुटप्रतीतिमपेक्ष्य एकैकमुक्तम् । प्रतिप- नेति । त्रैकालिकस्य स्वसत्त्वाभावस्य स्वधीविशेष्यदेश कालावच्छेदेन स्वस्मिन् या धीः ' अत्र रजतं नास्ति नासीन्न भविष्यति' इत्यादिरूपा तद्विषयत्वस्य शुक्तिरूप्यादिनिष्ठस्याभाव इत्यर्थः । अस्तित्वेति । अस्तित्वप्रकारतानिरूपितं प्रमाविशेष्यत्वमित्यर्थः । वर्तमानत्वं काल-