पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

76 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः भानसम्भवात्, घटादिगोचरवृत्तिप्रामाण्यस्य 3 66 ब्रह्मांशे घटः सन्नित्यादौ सद्रूपांशे च सद्रूपतादात्म्यमानं स्यादिति वाच्यम् ; सद्रूपान्यभासक सामग्रयां सद्रूपभिन्नांश एव सद्रूपतादात्म्य - भासकत्वनियमात् । वस्तुतस्तु ब्रह्मणश्चाक्षुषादिवृत्त्यविषयत्वेऽपि नास्माकं प्रकृते क्षतिः ; घटादिविषयकवृत्त्या घटाद्यवच्छिन्नस द्रूपस्याप्यावरणाभि- भवाद्धटादौ भासमाने सद्रूप तादात्म्यस्यावश्यं 1 अज्ञातचिदवच्छेदकविषयकत्व घटितस्य वक्तुं शक्यत्वात् । ब्रह्मज्ञानस्य तु त्रिकालाबाध्यविषयकत्वघटितं प्रामाण्यं भिन्नमेवेति तत्राज्ञातविषयकत्वनिवेशेऽपि क्षत्यभावात् सद्- पानुविद्धेत्यादिहेतोः सद्रूपतादात्म्ये 3 स्वनिष्ठे भासमान एव भास- मानत्वरूपत्व ' सम्भवात् । परंतु वस्तुगतिराचार्यैरुक्ता । यत्तु – “खण्डो गौर्मुण्डो गौरित्याद्यनुगतव्यवहार एव गोत्वादिसामान्ये मानं, अन्यथा व्यक्तिविशेषविशिष्टसत्सामान्यस्य उक्तव्यवहारविषयत्वे घटादेरपि व्यक्ति- विशेषत्वादुक्तव्यवहारविषयत्वापत्तिः, व्यक्तौ' विशेषस्य गोत्वादि- रूपत्वे तु मदिष्टसिद्धिः । सदात्मना न ब्रह्मण इत्याद्यप्ययुक्तम् । सदानन्दरूपयोरखण्डकरूपत्वेन सदात्मनाऽऽवरणाभिभवे आनन्दात्म- नाऽपि तदभिभवसंभवात् आनन्दात्मनाऽपि प्रकाशापत्तेः । प्रति- नियतेन्द्रियेत्याद्यपि न युक्तम्, ब्रह्मणोऽत्यन्ताव्यक्तत्वेन अतीन्द्रिय- त्वात् । ' नावेदविन्मनुते तं' न चक्षुषा दृश्यते, सर्वभूतेषु गूढः, दृश्यते त्वप्रयया बुद्धया सूक्ष्मया' इत्यादिश्रुतेः । सत्तादृष्टान्तोप्य- युक्तः, तस्याः योग्यव्यक्तिवृत्तिजातित्वेन योग्यत्वेऽपि ब्रह्मणोऽतथा- त्वेन अयोग्यत्वात् । अतोऽनुभव इत्यादिवार्तिकमप्ययुक्तम्, परा यया तदक्षरमधिगम्यते' इत्यादिश्रुत्या ब्रह्मबोधकत्वस्य परविद्या- रूपोपनिषदां लक्षण ' स्योक्तत्वात् प्रत्यक्षादेब्रह्मबोधकत्वे तत्र तदति - 5 6 तादात्म्येन. 4 रूपत्वा. 5 वृत्तौ. 1 तद्रूप. 6 निषदंशलक्षण, 7 तद. 2 अज्ञातचिद्विषयत्व. ' अथ