पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] परिच्छिन्नत्वविचारः 173 इति कालस्य च रूपादिहीनस्य मीमांसकादिभिः सर्वे- न्द्रियग्राह्यत्वाभ्युपगमात्, न च शब्दावच्छिन्नस्याकाशस्यापि श्रावणत्वं स्यादिति वाच्यम्; स्वभावतो योग्यस्य हि केन- चिन्निमित्तेन प्रतिरुद्धयोग्यताकस्य अवच्छेदकादिना योग्यता 1 प्रमात्वव्यवहारः । भ्रमेप्यधिष्ठानीभूतसद्रूपतदात्म्यापन्नरजतादिविषय- कत्वेनैव प्रमात्वं बाधात्पूर्व व्यवहियत इति धीमात्रस्य सद्रूपवि- षयकत्वमावश्यकामति भावः । कालसम्बन्धित्वरूपा सत्ता सर्वधीवि- षयत्वात् सर्वेन्द्रियग्राह्या मीमांसकादीनाम् । उक्तं हि तैः - 'न सोऽस्ति प्रत्ययो लोके यत्र कालो न भासते' इतीत्याशयेनाह — कालस्येति । प्रतीयमानांशे आधेयतासम्बन्धेन विशेषणतया कालो भाति, इदानीं घट इत्यनुभवात् । अविद्यमान- घटादेरपि तदानीं घट इत्याद्यनुभवात्, स्मर्यमाणस्य तत्कालीनार्थकः स इत्युल्लेखनियमात् । अतएव तार्किकादिभि: परोक्षज्ञाने सत्ता- भानावश्यकत्वं वाच्यमित्याशयेन मीमांसकादीनामित्यादि पदमुपात्तम् । तथाचानुभवानुरोधात् सत्तावच्छेदकभानसामग्रया एव सत्ताभासकत्वं कल्प्यतं इति तार्किकादिभिरपि वाच्यम् । पर्वते वह्निमनुमिनोमत्या- द्यनुभवस्यापलापायोगात् । अन्यथा पर्वतीयवह्निः सन्न वेत्यादिसंशया- पत्तेः उक्तसंशयनिवर्तकज्ञानान्तरकल्पने गौरैवात्, सत्ताघटितरूपेण व्यापकत्वाग्रहेपि सदाभानस्यानुमित्यादौ सम्भवात्, उक्तनियामक- सम्भवात् । अतएवातीन्द्रियानुमित्यादावपि सत्ताभानावश्यकत्वम् । न च मीमांसकादिभिः कालांशे लौकिकान्यविषयतव धीमात्रे स्वीक्रियते, त्वन्मते तु सद्रूपे लौकिकविषयतेति कथमनुभवैकरूपतेति वाच्यम्; तन्मतेऽपि सत्तां साक्षात्करोमीति धीबलात्ता दृशविषयत्वावश्यकत्वा- बाधपूर्व, 1