पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] परिच्छिन्नत्वविचार:

सिद्धिकारोक्तमपि साधु । ननु सदर्थस्य ब्रह्मणः रूपादिहीनस्या- संसारमज्ञानावृतस्य शब्दैकगम्यस्य कथं घटस्सन्नित्यादिबुद्धि- विषयता स्यात् ? तथाच 'घटोऽनित्यः' इत्यनेन घटगतानित्य- तेव 'घटस्सन्' इत्यनेनापि घटगतमेव सत्त्वं गृह्यते । न च स्वरू- पेणाप्रत्यक्षस्य राहोः चन्द्रावच्छेदेनेव ब्रह्मणोऽपि घटाद्यवच्छेदेनैव प्रत्यक्षतेति वाच्यम्; शब्दाद्यवच्छिन्नस्यापि गगनादेः श्रावणत्वा- द्यापातात् । राहोस्तु दूरदोषेणाज्ञातस्य नीलस्य योग्यस्य शुक्लभा- स्वरचन्द्रसम्बन्धाच्चाक्षुषता युक्तेति चेन्न; यतस्सदात्मना न ब्रह्मणो मूलाज्ञानेनावृतत्वम्, किन्तु घटाद्यवच्छिन्नशक्तयज्ञानेनैव । प्रतीतिमात्रस्य तत्तादात्म्य' रूपानुवेधविषयकत्वलाभेन उक्तहेतुलाभान्न तदुक्तिवैयर्थम् । यत्तु अनेकेषां तदनुविद्धतया प्रतीयतमानत्वं हेतुः, ब्रह्मणस्तु नानेकत्वमिति ; न तत्र व्यभिचारः, तद्रूपाभिन्नत्वं वा साध्यमित्युक्तं तच्छोभतेतराम् । ब्रह्मणोऽपि ज्ञानानन्दादिरूपेण अनेकत्वस्य कल्पितत्वात् प्रपञ्चमादायापि तत्सत्यत्वाच्च । उक्त- साध्यं च मिथ्यात्वं विनाऽपि सम्भवतीत्यर्थान्तरात् । ननु सदिति प्रथमहेतुर्यद्यपि स्वान्यूनसत्ताकभेद' प्रतियोगितात्वाद्युक्तरूपेण ; तथापि सदनुवेधधीविषयत्वयोग्यतात्वेन तदुक्तिर्न घटत इत्यभिप्रायः । सदात्मनेति । सद्रूपेणेत्यर्थः । घटाद्यवच्छिन्नशक्तयज्ञानेनेति । घटादिप्रपञ्चानुकूला शक्तिः यस्य तादृशमज्ञानं यत्र तेन पूर्णानन्द- रूपेणेत्यर्थः । सद्रूपस्फुरणेऽपि पूर्णानन्दावरणादेव संसारदृष्ट्याs 3. पूर्णानन्दरूपेण मूलाज्ञानावृतत्वम् । सद्रूपपूर्णानन्दरूपयोस्तु भेद आविद्यक इति भावः । अथवा सदात्मनेति घटाद्यवच्छिन्नसदात्मने- त्यर्थः । अतएव वक्ष्यति ब्रह्म घटाद्यवच्छेदेन योग्यमिति । अत एव पल्लवाज्ञानास्वीकारपक्षेऽपि मूलाज्ञानेन घटायाकारवृत्तिकाले घटा- 2 सत्ताकाभेद. 3 संसार दशा. „ 1 सत्तादात्म्य. 171