पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] परिच्छिन्नत्वविचारः 167 गतप्रतिभासे वस्तुनि कल्पिताः, विभक्तत्वात्, यथा सर्प- मालादिकम्, स्वानुगतप्रतिभासे रज्ज्वा इदमंशे विभज्यते । " एवं ब्रह्मण्यनुगच्छति घटादिकं विभज्यते । सन् घटः सन् शादिव्यक्तिनाशकल्पनागौरवमिति भावः । स्वानुगतप्रतिभासे इति । स्वतादात्म्येन स्वरूपतो भानयोग्ये स्वतादात्म्यविषयतानिरूपितानव- च्छिन्नप्रकारतावतीति यावत् । सप्तम्या व्यापकत्वमर्थ: । व्यापकता- निरूपकत्वं तादात्म्येन । तथाच यदुक्तप्रकारतावत्तत्र कल्पिता इति व्यापकता लभ्यते । कल्पिता: ज्ञाननिवर्त्याः, स्वाभाववति ज्ञेया वा । तादृशप्रकारताव्यापकस्वनिवर्तकधी विषयताकत्वं तादृशप्रका- रताव्यापकस्वात्यन्ताभावकत्वं वा पर्यवसितार्थः । उक्तप्रकारतायाः सामानाधिकरण्यमात्र निवेशे घटस्य स्वतादात्म्यभ्रमविषयपटत्वादौ कल्पि- तत्व मादाय परैरर्थान्तरं वाच्यम् । अतस्तस्याव्यापकत्वं निवेशितम् | ताशप्रकारतावत द्रव्यगुणकर्मादौ स्वनिवर्तकधीविषयत्वाभावादनव- च्छिन्नेति । द्रव्यगुणादौ च नानवच्छिन्नं प्रकारत्वम् । प्रतियोगिता- विषयतादेरखण्डत्वस्वीकारे तादृशप्रकारतावति तत्र घटादे: स्वनिवर्तक- धीविषयत्वाभावानिरूपितान्तस्थले स्वतादात्म्यसमानाधिकरणेति वा- च्यम् । एवंच यथासन्निवेशे व्यापकत्वं न व्यर्थम् । सामानाधिकरण्यं वा तत्स्थाने निवेश्यम्, प्रतियोगितादेरपि धर्मत्वात् । घटादौ तादात्म्य - स्वीकारे तु सामान्यवद्वक्ष्यमाण रीत्या तस्य ब्रह्मस्वरूपत्वाद्धटादि- निवर्तकधीविषयत्वात् न तद्व्यभिचार इति निरूपितान्तमपि निर्दो- षम् । तच्च यथोक्तरूपेण साध्यसिद्धयर्थ प्रकारताविशेषणम् । द्वितीय- साध्ये त्वनवच्छिन्नत्वं न देयम् । वस्तुतस्तु कल्पितपदस्य स्वात्य- न्ताभाववति प्रतीयमानार्थत्वे स्वानुगतप्रतिभासेत्यस्य स्वपश्चादपि 2 कल्पित. 3 सामान्यस्य वक्ष्यमाण, 1 सिद्धमित्यस्याव्यापकत्वमर्थे. इति. पा. 4 सत्येन वस्तुतस्तु.