154 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः ननु ' यदा अपरोक्षं ज्ञानं तदाऽर्थः' इति व्यासयनभ्युपगमे 'इदं रजतम्' इत्यपरोक्षज्ञानान्यथानुपपत्त्या अनिर्वचनीयता- सिद्धिर्न स्यात् । अर्थ विनाप्यपरोक्षत्वोपपत्तेरिति चेन्न: 'इदं रजतमहं जानामि' इति अनुसन्धीयमानं यत् ज्ञानविष- यत्वं तस्य आश्रयान्तरानुपपत्त्या अनिर्वचनीयरजतसिद्धेर्व- क्ष्यमाणत्वात् । अतएव परोक्षभ्रमेऽपि अनिर्वचनीयार्थसिद्धिः । अन्यापरोक्षत्वेन वा अर्थव्याप्यता, आर्षज्ञानस्यापरोक्षत्वान- भ्युपगमाम् । तथाच नानिर्वचनीयरजतसिद्धयनुपपत्तिः । एवं सज्ञातृकत्वमपि किं ज्ञातृजन्यत्वं ? ज्ञातृव्याप्यत्वं? ज्ञातृसम- वेतत्वं वा ? आद्ये ईश्वरज्ञाने व्यभिचारः । ज्ञाननित्यत्वस्य साधयिष्यमाणत्वाच । द्वितीयेऽपि अप्रयोजकता । न तृतीयः; ज्ञातृजन्यत्ववत् ज्ञातृसमवेतस्यापि सम्भवात्, ज्ञानस्य गुणत्व- क्रियात्वयोरनभ्युपगमेन द्रव्याश्रयत्वानुमानायोगात् । कदा- चित् ज्ञातृज्ञेयसम्बन्धेनैव अनुभवस्य विवरणवाक्यस्य च ययोः लौकिकसन्निकर्षजन्यज्ञानं तदा तदर्थ इति सर्वसम्मतेत्यर्थः । वक्ष्यमाणत्वादिति – “देशान्तरीयस्य साक्ष्यसम्बन्धेनापरोक्षतानुपपत्ते रपरोक्षज्ञानमादाय जानामीति न स्यात् । कालान्तरे तस्य साक्षिसम्ब- न्वेऽपि वर्तमानकालावच्छेदेन अपरोक्षानुपपत्तेः । देशान्तरीये सन्निकर्षा- भावेन प्रत्यक्षासम्भवात्, अलौकिकसन्निकर्षनिरासात् प्रतीतिमात्रे यादृशं भासते तादृशमवश्यं वाच्यम् ; प्रतीतेः स्वविषयशूरत्वात् । अन्यथा घटादावपि रूपादिवैशिष्टयं व्याबहारिकं न स्यात्, पश्चात् बाघस्य तत्रापि सत्त्वात् । इदानीं बाघात्परं शुक्तयादौ रजतादिवैशिष्टयं प्राती- तिकम् । भ्रमस्थले दोषादिकार्यता रजतत्वादिना; न तु रजतज्ञा- नत्वादिना, गौरवात्" इत्यादियुक्तेः वक्ष्यमाणत्वादित्यर्थः । आर्षज्ञान- स्येति । इन्द्रियसन्निकर्षादिरूपक्लृप्त कारणबाधात् तत्प्रत्यक्षादिभिन्नं, -
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१७४
दिखावट