पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

148 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथम: जडत्मनिरुक्तिः जडत्वमपि हेतुः । ननु किमिदं जडत्वं ? अज्ञातृत्वं वा? अज्ञानत्वं वा? अनात्मत्वं वा ? नाद्यः; त्वन्मते पक्षे निक्षिप्तस्यैव अहमर्थस्य ज्ञातृत्वात्तत्रासिद्धेः; शुद्धात्म- नोऽज्ञातृत्वेन तत्र व्यभिचाराच्च । नापि द्वितीयः; वृत्त्यु- परक्तचैतन्यस्यैव ज्ञानत्वेन केवलाया वृत्तेः केवलस्य चैत- , वृत्तिः सुखादौ मयाऽपि नोच्यते, वृत्तिसाक्षिणोः ज्ञानत्वादिजाति- स्वीकारण मन्मते 'घटं जानामि, सुखं जानामि इत्याद्यनुगत- व्यवहारसम्भवादिति वाच्यम्; अनुगतव्यवहारस्यैकव्यक्तिविषयकत्वा- सम्भवे सत्येवैकजातयिविषयकत्वस्वीकारात् । मन्मते असत्त्वापाद- काज्ञानविरोधिचैतन्यव्यक्तेरेव जानामांति व्यवहारप्रयोजकत्वात् । न चाज्ञानतद्विरोधित्वयोः कल्पने गौरवमिति वाच्यम्; ज्ञानप्राग- भावस्थले अज्ञानस्वीकारात्, मूलाज्ञानस्यैव घटाद्यवच्छिन्नचिदावर- कत्वपक्षे अज्ञानस्य वृत्त्या नाशास्वीकारेणागौरवात् । वृत्त्यभाववि- शिष्टं यदज्ञानं तदभावावशिष्टचिद्व्यक्तेरेव जानामीति व्यवहारप्रयो- जकत्वात् । दृष्टिसृष्टिपक्षे केवलचिद्वयक्तरेव तत्त्वसम्भवात् वृत्त्य- कल्पने नातिलाघवात् । विस्तरः प्रतिकर्मव्यवस्थायां भविष्यति ।। सारस्वतैस्तर्करनैश्चन्द्रिकाचन्द्रतां गतैः । दुरन्तध्वान्तखण्डानां खाण्डता दृश्यताहुतिः ॥ इति दृश्यत्वनिरुक्तिः, वृत्त्युपरक्तेति । सुखादावपि सुखादिरूपवृत्त्युपरक्तचैतन्य - मेव ज्ञानमिति भावः । केवलाया इति । जडत्वादित्यादिः । केवलस्येति । वृत्त्यभावकाले घटं जानामीत्यापत्तेरित्यादिः । मोक्षे