पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

144 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः तत्वात् । तस्य चाविद्यादौ शुक्तिरूप्यादौ चासत्त्वाभासिद्धि- साधनवैकल्ये । जथाच घटादेः फलव्याप्यत्वं तथाग्रे व- क्ष्यामः । अविद्यानिवृत्तेः पञ्चमप्रकारत्वाभ्युपगमपक्षे तत्र व्यभिचारवारणायाज्ञानकालवृत्तित्वं हेतुविशेषणं देयम् । तेनैव तुच्छेऽपि न व्यभिचारः । एवमेव सर्वेषु हेतुषु व्यभिचा- काज्ञानविषयतदवच्छेदकान्यतरत्वम् । उक्तविषयत्वं ब्रह्मण्येव, उक्त- विषयावच्छेदकत्वं घटादावेव, न त्वविद्यादौ । अतीतत्वादिदशा- यामपि शुक्तिरूप्यादेः नाभानापादकाज्ञानविषयतावच्छेदकत्वम् | साक्षि- सम्बन्धाभावादेव तदा तदभानोपपत्तेः । न चाज्ञानविषयतदवच्छे- दकत्वयोरव्याप्यवृत्तितया तद्दोषतादवस्थयमिति वाच्यम्; तदव्या- प्यवृत्तित्वेऽपि तदवच्छिन्नभेदघटितान्यतरत्वस्य व्याप्यवृत्तित्वात् ब्रह्म- घटादियत्किञ्चिद्व्यक्तयोरन्यतरत्वादेरव्याप्यवृत्तेरुक्त योग्यतात्वसम्भवाच्च । तु न अत्र मूलाज्ञानाविषयत्वावाच्छन्न प्रतियोगिताक एकाज्ञानपक्षे तु चिन्मात्र- विषयकतद्धीविषयत्वावच्छिन्न प्रतियोगिताको भेदो लघुः हेतुर्बोध्यः' । अज्ञानकालवृत्तित्वमिति । अज्ञानाप्रयुक्तं सत् यज्जन्यं तदन्यत्वे सति कालसम्बन्धित्वमित्यर्थः । अज्ञाननाशकप्रयुक्तनाशप्रतियोगित्वादिकं ब्रह्मण्यपि नास्तीति दृश्यत्वभागवैयर्थ्य, अतस्तन्नोक्तम् । न चोक्त- दृश्यत्वस्योक्तप्रतियोगित्वा भन्नत्वाद्धूमप्रागभाववत् वैयर्थ्यमिति वाच्यम् ; उक्तप्रतियोगित्वविशिष्टस्य दृश्यत्वघटकीभूतविशेष्यांशस्यैव हेतुत्वसम्भवेनेतरवैयर्थ्यात् । उक्तकालसम्बन्धित्वं तु ब्रह्मण्यपीति दृश्यत्वं सार्थकम् । सत्यन्तं तुच्छेऽपीति विशेष्यम् । तन्मात्रं पञ्चमप्र- कारेऽपीति सत्यन्तमुक्तम् । अज्ञानाप्रयुक्तं अज्ञानतल्लेशान्यतरतादा- त्म्यानापन्नम् | तेनाज्ञाननिवृत्तावपि प्रतियोगितया ज्ञानस्य प्रयोजक- त्वेऽपि न क्षतिः । जीवन्मुक्तभोगादिकमज्ञानानात्मकमपि तल्लेशा- 1 हेतुरिति भेदः. ,